2026-03-03 05:32:28 by ambuda-bot
This page has not been fully proofread.
१०
हंससद शे
निर्मातीव प्रतिनिधिगणान् दर्पशान्त्यै तदक्ष्णो-
रथापीत्थं कुवलयजपापुण्डरीकाणि वेधाः ।
भीतौ नूनं कमलनिकरी तारकेशाननायाः
कान्तादस्या नयनयुगलाद्यद्वने तौ भजेते ॥ ५५ ॥
भ्रूकोदण्डद्वितयमुपरिभ्रान्तमालोक्य चक्षु-
मत्स्यद्वन्द्वं व्रजति किमुत श्रोत्रकूपौ महान्तौ ।
मत्कान्ताया हसितनयनालोचनाभ्यां चकोरो
ज्योत्स्नाहारः कलयति तपस्तद्गुणाप्त्यै नितान्तम् ॥
आलोक्याह्नि स्वमधरमलं नेत्र ( युग्मान्निग्मिं ) निशायां
नाळीकौघः कलयति तपः शोकसङ्कोचितोऽस्याः ।
मत्प्रेयस्याः सुभगनयनद्वन्द्वलक्ष्मीकणीयो-
लाभाद्भीतिर्भवति नितरां प्रीतिहेतुर्मृगाणाम् ॥ ५७ ॥
नाळीकेष त्रिभुवनमिदं जेतुकामस्य वान्ये
मौन्यौ श्लक्ष्णे नयनसुभगे ( प्रननाशो ? प्राप्तनाशे) पयोजे ।
लीलाडोळे किमुत सुमनोधन्विनस्तत्प्रियाया-
चालोले द्वे सरसिजदृशः कर्णपाशावमुष्याः ॥ ५८ ॥
यूनां भूयानधिगतवपुः प्राणिनां वानुराग-
स्तत्राभाति स्फुटमिति भृशं भ्रान्तिमातन्वतोऽस्याः ।
भीतौ दन्तच्छद किसलयात् सुन्दराङ्गयाः प्रवाळौ
द्वा (वध्यास्ते वासाते) गहनतटिनीनाथकान्तारमध्ये ॥