This page has not been fully proofread.

उत्तरभागः ।
 
प्राणेश्वर्या नयनसुभगैरायतै मौलिभारैः
श्यामैरेतैरखिलशिखिनां कोमलं बर्हिवृन्दम् ।
निर्यत्नं द्राक् परिहसितमित्यात्मभूः कुण्डलं किं
नैवैतेषु व्यतनुतपुरा मेचकौघच्छलेन ॥ ५० ॥
 
धम्मिल्लैस्तैर्जलधरगणो निन्दितो व्योम्न्यजस्रं
भ्राम्यन् क्लेशात् स्वरसितमिषाद्रोदिति प्रावृषेण्यः ।
स्निग्धैरस्याः कुवलयदृशा गर्हितात्मीयवालो
वीळा मूढमरनिकरो वर्तते काननेषु ॥ ५१ ॥
 
वक्रं तस्याः कुवलयदृशः फालदेशस्य तुल्यं
कर्तुं विम्बं कलयति कृश श्यामले कोमलस्य ।
भूयः पूर्णं गुणगणनिधेस्तस्य पक्षे बल
 
वक्रस्येत्थ शिशिरकिरणः सेवते क्लेशभारम् ॥ ५२ ॥
 
द्वेधा कृत्वा व्यतनुत विधिस्तद्भ्रुवौ मारचापं
शम्भोः फालस्थितशुचिशिखाश्यामकं मत्प्रियायाः ।
कामेनेपुच्युतबहुरजः पाण्डुमभ्यं धनुः स्वं
 
किं वाधायि त्रिभुवनमिदं फालमूले विजित्य ॥ ५३ ॥
 
प्राणेश्वर्या मधुरनयनद्वन्द्वलक्ष्मीकर्णाय :-
 
प्राप्तै रात्रि दिवस मुदके पल्वलानां पवित्रे ।
स्थित्वा कृत्स्नैः कमलनिकरैर्दुःसहानि क्रियन्ते
गोकर्णौधैर्वन भुवि तृणं भक्षयद्भिस्तपांसि ॥ ५४ ॥
 
૨૧