This page has not been fully proofread.

२८
 
हंससन्देशे
 
कान्तामित्थं कुसुमितवनीदर्शनान्मूर्छितां तां
 
शय्यां नीतां किसलयमयी माकुलाभिः सखीभिः ।
शैवालौ धैर्बिस किसलयैरङ्कितक्रोडमध्यां
 
लीलारामे मलयजजतटे द्रक्ष्यसि त्वं खगेश ! ॥ ४५ ॥
 
नेत्रे पद्मं वपुषि सुभगे केसरं गण्डपाळ्यां
 
लोधं कुन्दं मधुरहसिते मार्दवेऽच्छं शिरीषम् ।
रोमाञ्चौघे प्रियकमुकुलान् स्वमसम्मेलनोत्थे
 
धत्ते लक्ष्मीं प्रियसहचरी सैव षण्णामृतूनाम् ॥ ४६ ॥
 
वक्षः क्षिप्तैर्बिस किसलयैः सिक्तशीतोदकैश्व
प्रालेयाम्बुसपितसुमहत्तालवृन्तानिलैश्च ।
 
श्वासो (लोस्तिच्छ्रासैः) स्फुरति हृदयं मन्दमेतीव संज्ञा-
मेषा कामज्वरकवलितेत्याळिलोका वदन्ति ॥ ४७ ॥
 
तां निःश्वासश्वसनचलितोत्तुङ्गवक्षोजकुम्भा-
मास्राम्भोभिः कलुषवदनां कज्जलाचैरनल्पैः ।
कान्तां तल्पे किसलयमये सन्निषण्णां वियोग-
व्याधिक्कान्तां कथमिव भृशं खि (न्द द्य) से नो विलोक्य ॥
 
प्राणेश्वर्या विकचसुमनोदामकान्तेरमुष्या
 
मूर्ध्नि श्यामः कुवलयरुचिः पुष्कलः केशभारः ।
चाम्पेयत्रनिचयकलितस्तोयवाहो हिमाद्रौ
विद्युन्मालावलयित इव भ्राजते नीलधामा ॥ ४९ ॥