This page has not been fully proofread.

उत्तरभागः ।
 
कीरत्रोटपुट विदलितैर्दाडिमीबिम्बितानां
स्निग्धैरेतैः परिणतफलैर्दन्तवासः प्रवालौ ।
भग्नौ दन्तव्रणनख पदैर्विप्रयुक्तौ महान्तौ
 
२७
 
वक्षोजौ द्वाविति विरहिणी खि ( न्दद्य) ते सुन्दराङ्गी ॥४०॥
 
इच्योतन्माध्वीश्रम जलकणाः किञ्चिदुत्फुल्लपुष्पा
रक्तालोलत्किसलयकरा मत्तभृङ्गाळिवाणीः ।
वीरुत्पङ्क्तीर्नयनसुभगाश्चुम्बिता गन्धवा है-
 
वक्ष्येदानीं निवसति दृशौ मीलयित्वा प्रिया सा ॥ ४१ ॥
 
किं वा मूर्तेः पथिकवनिताघातजैर्दुर्यशोभिः
 
संश्लिष्टाग्रान् किमु विरहिणां कालखण्डैर्जनानाम् ।
तीक्ष्णान् बाणानिति रतिपतेर्हिगुदीपादपानां
 
वीक्ष्य स्निग्धान् मुकुलनिकरान् मन्यते वल्लभा सा ॥ ४२ ॥
 
दृष्ट्रा चक्रं मुकुलपटलं वातपोतद्रुमाणां
 
जन्त्वौघानां बळिशनिकरं विप्रयोगाकुलानाम् !
गाढालोलान् हृदयनिकरानाददातुं मनोभू-
 
दाशस्येति प्रियसहचरी मन्यते दीनचेताः ॥ ४३ ॥
 
यैर्निर्यत्नं विरहविवशा हन्ति शृङ्गारयोनी
 
रामाः क्रोधज्वलितहृदयस्तद्वदस्मानितीव ।
 
त्यक्तान् सर्वैर्मधुकरकुलैः कोरकान् स्वर्णवर्णा-
 
वाम्यानां पिबति दयिता लोचनाभ्यां सखेदम् ॥ ४४ ॥