This page has not been fully proofread.

२६
 
हंससन्देशे
 
पाटीरद्मणिरचितसद्वेदिको कोमलौ द्वा-
 
वुन्मत्ताळीव मुखरितौ मत्प्रणीतौ महान्तौ ।
कुर्वते ते परिणतफलस्तोमन म्राग्रशाखा-
पाळी रुद्रधुमणिकिरणौ लोचनानन्दलक्ष्मीम् ॥ ३५ ॥
 
तन्मूलस्थे सुभग ( गणि लति ) के द्वे दरोत्फुल्लपुष्पे
मन्दं मन्दं किसलयकरैर्लोहितैस्तौ स्पृशन्त्यौ ।
कुते प्रमदमतुलं कान्तया कुम्भवक्षो-
जान्तश्च्योतत्सुमधुरपयोराशिभिः पोषिते ते ॥ ३६ ॥
 
माद्यत् किद्विजगुरुगरुयुग्म विक्षेपणोद्य-
 
द्वाताधूतक्रकर कुसुमस्रस्तमारन्दसिक्तम् ।
गौणातीराभरणमलघुर्निन्दति प्राणनाथा-
 
लीलारामो न निखिलमनोनन्दनो नन्दनं न ॥ ३७॥
 
उन्मत्तानामयि ! मधुलिहां मूर्च्छिते मुग्धगानै-
 
गौणावीची मुरवनि करै वैणवैः कीचकैश्च ।
जातीराम सततगतिना प्रेरितोद्यन्मरन्द-
 
स्वेदा (लुलि) तस्तबकवदना यत्र नृत्यत्यजस्रम् ॥ ३८ ॥
 
वासन्तीनां मुकुलनिकरांश्चुम्बितान् भृङ्गसङ्घ
 
रोपांस्तीक्ष्णान् क्षुभितमनसो मन्मथस्यायसाग्रान् ।
पान्थौघानां हृदयकुसुमच्छेदनायेति मत्वा
 
मत्कान्ता सा विरहदहनज्वालदग्धा बिभेति ॥ ३९ ॥