2026-03-03 05:32:27 by ambuda-bot
This page has not been fully proofread.
उत्तरभागः ।
सौधर्णास्फिटिकशिखरे संयुते वैजयन्ती-
सङ्घे नीते सततगतिना तारकानाथबिम्बम् ।
चित्रं चित्रं शिशिर किरणं पर्वणः सैंहिकेयो
२५
मुङ्क्तेऽन्यस्याममुमिति तिथौ यत्र लोका वदन्ति ॥ ३० ॥
तारानाथच्छविसितसुधामण्डिता स्निग्धभित्ति-
र्युक्तः शृङ्गैर्वनकरिपतेर्निर्मितैजलजालैः ।
मार्गोन्मिश्रैर्मलयजरसैः सिक्तगर्भो महीयान्
लीलासौधो नयनसुभगो वर्तते मत्प्रियायाः ॥ ३१ ॥
तस्मिन् युक्ते प्रियसख ! लतावेष्टितैः स्पृष्टकाद्यै-
श्राभ्यासार्थ मुकुरलिखितैश्वित्रवृक्षाधिरूढैः ।
रम्ये मचे विकचसुमनोवासितताम्रशय्ये (?)
शेते नित्यं प्रियसहचरी नातितुङ्गोपधाने ॥ ३२॥
सौधस्यास्य स्फटिकशिखरे दन्तिशृङ्गप्रणीते
शारी काचिद्विलसति सदा पञ्जरे मुग्धवाणी ।
श्लोकान् शश्वत् कथयति मनोमोहनान् व्यक्तवर्ण
सालङ्कारान् मम दयितया दक्षया शिक्षिता सा ॥ ३३ ॥
एवं मध्या नयनसलिलैरार्द्रया (रूपतो रूषितं) त्वं
कृत्वा नेदं कलय वदनं तारकानाथतुल्यम् ।
अद्यैव त्वं कमलवदने ! द्रक्ष्यसि प्राणनाथं
सेदा (नीत्थंनी तां) कथयति सखीभाषिताकर्णनेन ॥ ३४ ॥