2026-03-03 05:32:27 by ambuda-bot
This page has not been fully proofread.
२४
हंससन्देशे
श्व्योतन्माध्वीकणकुरब कसक्छटा मण्डितोरा-
श्वेतोजन्मा कुसुमविशिखांचे क्षुचापं दधानः ।
स्फायद्भक्त्युद्वहनविनमन्मूर्धनारी (टीड्य) मानो
रत्या साकं विलसति सदा यत्र गाङ्गेयपीठे ॥ २५ ॥
क्रोधोद्रेकात् कुसुमविशिखैः सत्वरं मोहयित्वा
वद्ध्वा भूयः सुमहदगजाभ्रूलता शृङ्खलेन ।
नीतो येन स्वरिपुगिरिशः सामिनारीशिताख्यां
कारां तुभ्यं नम इति सदा यत्र योषाः स्तुवन्ति ॥ २६ ॥
कर्णालोलन्मरतकमणीकर्णिकादीप्रगण्डाः
कम्रो तुङ्गस्तननिहतपुंधैर्य सर्वस्वसाराः ।
रत्नाङ्गुल्यावलिरुचिचयश्यामलाशावसानाः
सद्धोद्धर्ष (१) कुवलयदृशो यत्र सम्भावयन्ति ॥ २७॥
तस्याभ्यर्णे मरतकमणीक्लप्स सोपानपङ्क्ति
स्निग्धं भास्वत्स्फटिकपटलीनिर्मितोत्तुङ्गभित्ति ।
नेत्रद्वन्द्वप्रमदजनकं गोपुरं द्रक्ष्यसि त्वं
धीमन् ! यत्र प्रियसहचरीवासतेयी भवेत् सा ॥ २८ ॥
गाङ्गेयाम्भोरुह सुरभिता मण्डिताल सुरभ्या
वस्त्रौघेनाप्यखिलसुमनोवासदेदीप्यमाना ।
रम्भास्वादप्रमुदितमनः कौशिका वासतेथी
महिन्या विलसति सुधाशीतला स्वर्गपूर्वा ॥ २९ ॥