2026-03-03 05:32:27 by ambuda-bot
This page has not been fully proofread.
उत्तरभागः ।
२३
स्वर्गोद्याने विबुधमिथुनं बाहुनोन्मुच्यमाने
नीवीबन्धे प्रमदकलितखान्तमालोक्य बिम्बम् ।
यत्सौधानां हिमकरमणी कुट्टिमेष्वन्यमत्या
कर्तुं नैव प्रभवति रतं निर्भरापत्र पार्तम् ॥ २० ॥
उत्तुङ्गानां मरतकमये यत्र सौधावलीनां
शृङ्ग योषा नयनसुभगाः कल्पिताः शिल्पिवयैः ।
आश्लिष्यन्ते सपदि तरुणैः सत्यमत्या मनोभू-
नाळीकाळी निहतधृतिभिर्गाढमानन्दमन्दैः ॥ २१ ॥
धते भर्तुर्मसृणनखरोल्लेखनाद्यत्र वक्षो-
भूरापीनः कुवलयदृशां लोहितानि व्रणानि ।
आलोक्यारात् त्रिदिवकरिणस्तुङ्गकुम्भद्वयश्री-
नन्द्याक्रोधज्वलितमनसः स्थूलशृङ्गाभिघातात् (१) ॥ २२ ॥
तप्तस्वर्णद्र व विरचितोचुङ्गसालाळिजृम्भ-
त्तेजोराशिप्रतिहतमहामेरुशोभावलेपम् ।
माकन्दाख्यं मदनशरणं तुङ्गरुक्मध्वजाग्र-
भ्राजन्मीनं विलसति सदा मज्जु गौणाप्रतीरे ॥ २३ ॥
गानैर्वीणा मुखपणवैर्मूच्छितेषु प्रदोषे
शृङ्गैः शङ्खर्मरतक मणिस्तम्भसम्भावितेषु ।
यत्र श्यामा गुरुकुचभर श्रान्तमध्याः सुकेश्यो
नृत्यन्त्युद्यच्छ्रम जललवैर्मण्डिता मण्डपेषु ॥ २४ ॥