This page has not been fully proofread.

२२
 
इस सन्देशे
 
उत्तुङ्गानां मरतकमणीकल्पितानां पताका-
सङ्घः शृङ्गावलिषु कलितो यत्र हयोत्तराणाम् ।
प्रासादस्थत्रिदिववनितावक्रलोलो भवत्यो
 
भग्ना हैतद्युवतिभिरमूरित्यहो पृच्छतीव ॥ १५ ॥
 
उत्तुङ्गानां स्फटिकशिखरे यत्र सौधावलीना-
मासीनानां मृगमदरजोभूषितं कामिनीनाम् ।
आम्यं मन्दस्मितरुचिसुधास्यन्दि वीक्ष्येन्दुमत्या
मन्दाकिन्याः सरसिजवनी मीलितास्ते दिवापि ॥ १६ ॥
 
आस्यैर्यत्र स्मितवलयितैः सुन्दरैः सुन्दरीणां
 
भूमिस्थानां भृशमधरितः प्राङ् ननन्दोपरीति ।
सौधस्थानामथ नु कलयंस्तानि तासां भवामि
द्वेधेदानीमहमिति चिरं खि (न्द द्य) ते मन्दमिन्दुः ॥ १७॥
 
यत्रोच्छ्रायच्छुरितगगनान्युज्ज्वलद्रुक्मभित्ति-
प्रत्युप्तोद्यद्धरिमणिगणच्छायसम्मेलितानि ।
लीलालास्ये कलितमुरजध्वानरुद्धानि सौधा-
न्यालिङ्गयन्ते जलदपटलैः सन्ततं मित्रबुद्धया ॥ १८ ॥
 
यत्रोत्तुङ्गे कुवलयदृशां हर्म्यपृष्ठे स्थिताना-
 
मब्जामित्र वदनशशिनं वीक्ष्य देदीप्यमानम् ।
दोषाबुद्धया नयनसलिलैराप्लुतः खिन्दद्य) तेऽलं
चक्र स्तिष्टनखिलजन हुन्नन्दने नन्दनेऽह्नि ॥ १९ ॥