This page has not been fully proofread.

उत्तरभागः ।
 
ज्योत्स्नाश्वेतस्मित निहतपुं धैर्यसारा मृगाक्ष्यो
यत्रालोलन्मरतकमणीकर्णिका कर्णपाशाः ।
औशीराम्भःस्नपनविमलाः सूक्ष्मशुक्लांशुकान्त-
र्लक्ष्योरोजा रमणशरणं तुष्टचित्ता व्रजन्ति ॥ १० ॥
 
निन्दन्तीनां निजगुणगणैर्यत्र नारीसमूहा
 
नासां भेदं कुवलयदृशां चिन्तयन्नल्पशोऽपि ।
त्यक्त्वा नेत्रच्छदमकुरुत स्वर्गसीमन्तिनीचे-
 
२१
 
मुग्धौघानां परिषदि सदा माननीयो विधाता ॥। ११ ॥
 
आसीनानां मरतकमणीवेदिकायां वधूनां
 
रम्ये व मधुसुरभिते सञ्चरन्नब्जबुद्धया ।
यत्र क्षीबो मधुकरगणः पुष्पकेतोर्धनुर्ज्या -
 
घोष भ्रान्ति कलयति सदा त्रातुमारात् स्थितस्य ॥ १२ ॥
 
निन्दन्तीनां सुविमलगुणैः कृत्स्ननारीरजस्त्र
 
स्वीयैरल्पं कुवलयदृशां चिन्तयन् यत्र भेदम् ।
त्यक्त्वा द्वितयमकरो (त्सत्स्व) र्गसीमन्तिनीचे-
न्मुग्धौघानां परिषदि सदा श्लाघनीयो विधाता ॥ १३॥
 
शृङ्गालोलध्वजपटतती घर्षणाधूतयामा-
यासोद्भूतश्रम जलकणस्वर्गयोषिमुन्खेन्दुः ।
यत्र ज्योत्स्नाविशद सुधयालेपितो हर्म्यसङ्घः
 
कुर्यात् तेऽलं मरतकमणीचित्रितश्चित्रमक्ष्णोः ॥ १४ ॥