This page has not been fully proofread.

२०
 
हंस सन्देशे
 
यापां पत्या सह कुमुदिनीं दीप्यमानेन भास्व-
तारावल्या सुविमलकलासञ्चयेन प्रफुल्लाम् ।
राजज्ज्योत्स्ना निहततमसा क्लान्तपाथोजवक्रा
दृष्ट्रा खेदाद्रमरनिनदैः पद्मिनी रोदितीव ॥ ५ ॥
 
गौणावीचीकमलकणिकावाहको मन्दमन्दो
गृह्णन्नीषद्विकचसुमनः पुष्पमारन्दविन्दून् ।
वामाक्षीणां दिनपरिणतौं दक्षिणाशासमीरो
मानोद्रेकं दृढतरमपि ध्वंसते यत्र नित्यम् ॥ ६ ॥
 
आतन्वानः कुसुमविशिखान् यत्र तान् दोर्मतल्लया
विष्वास मुदितमधुलिडुन्दिभिः स्तूयमानः ।
वस्तामित्रो जयंति मरुता मन्त्रिणा गृह्णतालं
साकं कामो विकचसुमनःपुष्पगन्धोपहारान् ॥ ७ ॥
 
पण्यस्त्रीणां निजसखिजनैरथितो वेशवाटी
गत्वा तैस्तैर्मधुरवचनैस्तद्वशास्ता विधाय ।
(सिल्क सीक) स्तोमो दिनपरिणतौ यत्र सन्देशमाध्व्या
तेषामार्द्र चलति सहसा श्रोत्रयुग्मं विधातुम् ॥ ८ ॥
 
वीटीगर्भाननसरसिजः पादुकालङ्कृताङ्घ्रिः
 
स्वर्णोष्णीषो धवलवसनस्तालवृन्तं दधानः ।
रत्नोत्तंसद्वयसुषमया दिङ्मुखं शोणवर्ण
 
कुर्वन् यत्र स्वयुवतिगृहं कामिलोकः प्रयाति ॥ ९ ॥
 
32