This page has not been fully proofread.

उत्तरभागः ।
 
पक्षद्वय्याः कनकमहसस्तेजसा श्लेषितेषु
प्रासादौघेष्वहिरिपुमणीकल्पिते षून्नतेषु ।
वर्षा बुद्ध्या भवनशिखिनः कुर्वते सप्रमोद
 
लास्य केामुखरितदिशो यत्र राजच्छिखण्डाः ॥ १ ॥
 
ताम्यत्को कद्विजयुतमहल्लोचनद्वन्द्वनिर्य-
न्मन्दोष्णाम्भोद्विगुणितपयोराशिकासारसङ्घः ।
 
सायङ्कालः सुभग ! भविता पान्थलो कासुचोरो
यावद् गन्ता ध्रुवमयि ! भवान् कुम्भमालूर गेहम् ॥ २॥
 
अप्पत्याशां कर किसलयैर्गाढमालिङ्गयन्तं
रक्तैर्वक्षोजकलश लसत्कुङ्कुमाश्लेषणेन ।
 
आलोक्यासाव शिशिररुचिं ध्वान्तवासो मतल्लया
 
मा स्म द्राक्षीदिति हरिहरित् प्रावृणीते स्वमास्यम् ॥ ३ ॥
 
स्वीयं कान्तं तमरुणकर तेजसामेकपात्र
 
कल्याणानां निरुपमगुणं रागिणं सन्निधाय ।
अस्तक्षेोणीधरकुचभरे पीवरे पश्चिमाशा
 
रक्ता मुङ्क्ते मुदमविरळां शोणपाथोदवासाः ॥ ४ ॥