2026-03-03 05:32:26 by ambuda-bot
This page has not been fully proofread.
पूर्वभागः ।
एवं नत्वा हरिपदयुगं चिन्तितावाप्तिहेतुं
प्रत्यग्राम्भोरुहमधुरसं काममाखाद्य गच्छ ।
तांस्तान् देशानथ कवचितान् पाकपिङ्गप्रकाशै-
व्रीहिस्तोमैर्नयनयुगल प्रीणना (नृक्ष न्द्रक्ष्य) सि त्वम् ॥७८॥
लोलद्वीची (चय) मुखरिताशान्तरा तीरभूमी-
सोपानौघस्खलितकमला वासिता पद्ममाध्व्या ।
केतक्यालीवलयिततटा मण्डिताकण्ठमग्नैः
स्त्रैणास्याब्जैः कलयति मुदं नेत्रयोरङ्ग ! गौणा ॥७९॥
कीनाशाशासततगविना वासितायाः स्रवन्त्याः
स्वच्छालोक्यस्वतलसिकतासञ्चयाया जलेषु ।
सङ्क्रीडन्ते पुरुषनिकराः सन्ततं स्त्रैणचक्षुः-
श्यामाब्जस्रग्वलयितगळा जृम्भदानन्दमन्दाः ॥ ८० ॥
अम्भोनीवोविरहित महत्सैकतारोहचत्रा
पाथोजास्या सुविमलरसा लोलकल्लोलहस्ता ।
ऊर्म्यग्राश्वत्कमलकणिकाहारमाला कथं सा
कुर्यात् प्रीतिं न चलशफरीलोचनावर्तनाभिः ॥ ८१ ॥
गौणावात्याविचलितदलान्योन्यसङ्घट्टनोत्थ-
ध्वानाद् भीतैरिव खररुचेर्मुच्यते रश्मितापैः
यस्याभ्यश्चलदलतरुः (सेव्यतां ) सप्रमोदं
तत्तीरस्थो धुमणिकिरणक्कान्तधाना त्वया सः ॥ ८२ ॥
१७