2026-03-03 05:32:25 by ambuda-bot
This page has not been fully proofread.
१६
हंससन्देशे
पुष्यलोधप्रसवसुमनोधूसरा हूणलोका
मत्तात्मानो नवमदिरया चोळसञ्छ। दिताङ्गः ङ्गाः) ।
तत्ताग्भिः प्रियसख ! समं कामिनीभिर्मनोज्ञे
प्रासादानां महति शिखरे यत्र नित्यं रमन्ते ॥ ७३ ॥
दृष्ट्वा दृष्ट्वा तव मधुरतां छद्मकर्मप्रवीणा
ये हूणौघा विपुलमतयस्त्वां ग्रहीतुं यतन्ते ।
तेषां कृत्वा खगवर सखे ! वञ्चनां द्रागुपायै-
स्तैस्तैर्भूयः सरिदधिपते रोधसा तेन गच्छ ॥ ७४ ॥
नात्यासन्ने प्रियसख ! नभोनिम्नगायां महीयान्
साक्षात् कृष्णो विलसद (दत) सीदामनलप्रतीकः ।
चाम्पेयस्रग्वलयिततनुः स्वर्णपीठे सुमेरौ
चम्पाश्लिष्ट जलधर इव भ्राजते प्रावृषेण्यः ॥ ७५ ॥
शश्वद्भास्वन्मरतकमणीनिर्मितोत्तुङ्गाभित्ति-
श्रेणीनिर्यन्निरुपम महः कल्पितेन्द्रायुधाभ्रम् ।
तस्य क्षेत्रं दितिसुत रिपोरुज्ज्वलद्दीपपाळी-
ज्वालापूर्त नयनसरणि हंस ! गन्ता त्वदीयम् ॥ ७६ ॥
आहूताभिः श्रवणमधुरैर्वेणुनाळीनिनाद-
गोत्रीभिः सह विधुमहोमूर्च्छितायां निशायाम् ।
वृन्दारण्ये विकचसुमनोवासिते योऽरमत् प्राग्
बाल्ये तस्मै भवतु भवते श्यामधाने नमोऽस्मै ॥ ७७ ॥