2026-03-03 05:32:25 by ambuda-bot
This page has not been fully proofread.
पूर्वभागः ।
पत्युर्मन्दं मृदुतरकरस्पर्शनेन प्रफुल्ला
पश्यन्ती तं चिरविरहितं रागिणं पद्मिनीसा ।
सम्फुल्लाम्भोजनयनचलद्भृङ्गिका तारका ते
नेत्रानन्दं कलयति रजोमण्डिता दुष्प्रमेयम् ॥ ५८ ॥
कान्तोऽमुञ्चद्रमणि । भवतीं कालपाशाकुलो न
क्रोधाद्रागी भवति भगवान् पद्मिनि ! प्रेक्षणीयः ।
गुर्वीमेतां त्यज मुकुळतां द्रागितीवाळिवर्गाः
शब्दायन्ते तटतलंगता यत्र नित्यं प्रभाते ॥ ५९ ॥
तावत् प्राचीस्थितरविमहः सञ्चयाश्लेषणेन
स्वर्णभ्रान्ति मरतकमणीकल्पिताप्यावहन्ती ।
ओकः पङ्क्तिः कलयति मुदं यत्र तेक्ष्णोर्मनोभू-
युद्धायासग्लपितललनाभूषिताळिन्दभूमिः ॥ ६० ॥
१३
आलोक्यास्यं विगततिलकं दर्पणेऽर्धाञ्जनाक्षि-
द्वन्द्वं दन्तत्रणपरिचितोष्ठप्रवालं स्मरन्त्यः ।
सम्भोगं तं युवतिततयो यत्र रोमाञ्चिताङ्गयः
सान्द्रानन्दात् किमपि न विदुः स्तब्धचित्ता नितान्तम् ॥ ६१ ॥
गच्छन्ती स्वं शरणमं चिराञ्जीवितेशस्य धाम्नो
मध्ये मार्ग पथिकनिकरं वीक्ष्य यत्र प्रभाते ।
तारुण्यश्री विहरणस मिल्लन्धकान्तां हियासौ
मां वेतीति प्रसवनयना (लखितुं जल्पितुं ) लज्जतेऽहो! (१) ॥