2026-03-03 05:32:25 by ambuda-bot
This page has not been fully proofread.
१२
इस सन्देशे
गन्ता पापक्षपणनिपुणं धाम शम्भोर्भवांस्त-
द्यावत्तावत् खगवर ! जगच्चक्षुरस्ताचलं च ।
तस्मादस्मिन्निवसतु भवानाप्रभातं शुचीन्द्रे
दोषज्ञौधो वदति रजनौ न व्रजेद् यो हितैषी ॥ ५३ ॥
त्वय्यभ्यर्ण चलति नतये वीक्ष्य पक्षद्वयश्री-
लिप्तं मृत्युञ्जयगलतलं नूतनाम्भोदमत्या ।
शुक्लापाङ्गः स्मरहरतनूजस्य नर्तिष्यति द्रा-
गीषन्मीलन्नयनजठरप्रोच्चरत्तारकोलम् ॥ ५४ ॥
नत्वा सन्ध्याक्षणपरिणतौ शैलराजात्मजेशं
गङ्गावीचीतर ळितजटाभारसीमन्तचन्द्रम् ।
भूयः स्वप्यान्नयनसुभगे कुत्रचित् सौधभृङ्गे
कीनाशाशाहरिशिशिरिते राजहंसाप्रभातम् ॥ ५५ ॥
रात्रेरन्त्यप्रहरसमये वाशितैस्ताम्रचूडः
कान्ताश्लेषप्रमुदितमनःकामुकश्रोत्रशल्यैः ।
शश्वन्माद्यद्रमरपटली गानसम्भावितैस्तै-
मन्दं मन्दं खगवर ! ततो नूनमुद्बोधयेत् त्वाम् ॥ ५६॥
अर्धोन्मीलत्सरसिजवनीनव्यमारन्द बिन्दून्
गृह्णन् वायुस्तदनु शनकैः कम्पय नाम्रशाखाः ।
पद्माक्षीणां मदनसमराद्विश्रमं सादितानां
कुर्वन् सद्यः सुभग ! भजते वीतनिद्रं भवन्तम् ॥ ५७॥