2026-03-03 05:32:25 by ambuda-bot
This page has not been fully proofread.
पूर्वभागः ।
उन्मत्तालीक्वणितरशना डाडिमोरोजकुम्भा
शृङ्गारोहस्थल परिगल निर्झराम्भोदुकूला ।
पुष्यत्पुष्पा मधुसुरभिता शोणबिम्बाधरेयं
नेत्रानन्दं सुभग ! कुरुते वक्रशैलस्थली ते ॥ ४८ ॥
तापिञ्छानां सति कथलिते तेजसा व्योम्नि वर्षा-
बुद्धया के कामुखरितदिशः प्रोल्लसत्पिञ्छमाराः ।
शुक्लापाङ्गाः कुसुमविगळन्नव्य मारन्दसिक्ते
११
वध्वा साकं मुदितमनसो यन्नितम्बे रम (न्तिन्ते ) ॥ ४९ ॥
अद्रावस्मिन् दरपरिलसन्मालतीसून गन्धि-
स्तुङ्गप्रस्थच्युतझरपयोबिन्दुवाहः समीरः ।
अध्वश्रान्ति मृदुतरगतिर्ध्वसते प्रेमधामन् !
सद्यः पुंसां धृतिमिव सरोजेक्षणापाङ्गपातः ॥ ५० ॥
पीत्वा तोयं तदनु विमलं दक्षिणाशानभव-
च्छीतं भुक्त्वा बिसकिसलयं पद्ममारन्दसिक्तम् ।
सन्तुष्टात्मा सुभग ! गिरिजानाथगेहं शुचीन्द्र
गच्छ क्षिप्रं भुवनमहितं देवराट्शुद्धिभूमिम् ॥ ५१ ॥
नित्यं भृतप्रभृतिभिरमा पार्वतीप्राणनाथो
यस्मिन्नास्ते निखिल विबुधैः सन्ततं सेव्यमानः ।
तप्त स्नेह स्फुटमिह जनैर्लोचनागोचराणा-
मालोक्यन्ते प्रियसख ! फलान्यात्मकर्मोत्कराणाम् ॥ ५२ ॥