This page has not been fully proofread.

हंससन्देशे
 
पत्र स्नेहादुपरि कलयन् पुष्करेणाम्बुधारां
शालू (पारा) णां कबलम सकृद्धेनुकाखादितार्धम् ।
अश्नन् गण्डद्वयरणदलिः क्रीडते लोलकर्णः
पद्मी वध्वा सह वननदीपुष्करे सप्रमोदम् ॥ ४३ ॥
 
रागीभूते तदनु मिहिरे वारुणीं भोक्तुकामे
मन्दं मन्दं व्रजति सुमनोगन्धवाहे समीरे ।
पुष्यजातीरुचिधवलिते दिङ्मुखे कैरवाणां
 
वृन्दे माध्वीमुचि खगपते ! त्वं दिवा गच्छ सद्यः ॥ ४४ ॥
 
पश्चादस्य क्षितिधरपतेः पुष्कलः केरळाख्यो
 
नीवृद् ग्रीष्मेऽप्युदकमनिशं मुच्यते वारिवाहैः ।
 
यत्रोत्तुङ्गाः परिणतफलस्तोम नम्रोत्तमाङ्गा
 
वर्तन्ते ये मरिचवलिता नाळिकेराश्च पूगाः ॥ ४५ ॥
 
नात्यासन्ने धरवरसुता वर्तते सा कुमार्यां
 
नित्यं ज्योत्स्नापदकमलभाक् साम्परायाम्बुजानाम् (१)
निन्दन्ती स्वैरतनुललनां कान्तिभारैरनल्पै-
 
रेनां नत्वा सपदि शिरसा गच्छ लब्धप्रसादः ॥ ४६ ॥
 
वक्रो नाम क्षितिधरवरो वर्तते नातिदूरे
 
वीतसूया यतिसमुदया निकुञ्जोदरस्थाः !
कल्यात्मानः सुभग ! महतामोषधी सञ्चयानां
 
कुर्वन्त्यायुर्विपुलम मरास्ते जसेवामृतानाम् ॥ ४७ ॥