This page has not been fully proofread.

पूर्वभागः ।
 
सह्यो नाम क्षितिधरवरस्तुङ्गशृङ्गव्रजेन
 
श्रान्तं विबुधविव्योमयानं निरुन्धन् ।
कूटोदश्वज्झरधवलितावासतश्चन्द्रबाला-
 
बीजव्रातैस्तदनु भविता नेत्रयुग्मातिथिः सः ॥ ३८ ॥
 
उन्निद्रोष्णच्छविकरगणोत्तप्तसूर्याश्म पाली-
 
गर्भोदश्चद्भुत वह शिखामण्डलीतर्जितौर्वः ।
क्लान्तं कुर्वन् वकुलकुसुमं सज्वर सह्यशैल
 

 
गच्छत्यस्मिन् भवति भविता हंस ! मध्याह्नकालः ॥ ३९ ॥
 
कारुण्याच्धे ! क्षितिधरवरे तत्र विश्रम्य गच्छे-
 
स्तस्मिंस्तस्मिन् झरतटतले वा निकुञ्जोदरे वा ।
अत्यायासाद्भवति नियतं जीवितस्यापि नाश-
स्तस्मादेतन्न कुरु विद्युधैर्निन्दितं राजहंस ! ॥ ४० ॥
 
तप्ते तीक्ष्णद्युतिमणिमये तस्थिवांसो मृगौघाः
शृङ्गे शृङ्गे तदनु सहसा तापभाराद्विहाय ।
पुष्यद्वीरुत्स्तबकनिकरस्रस्तमारन्दसिक्तं
 
यस्मिन् वध्वा सह वननदीतीरकुञ्ज व्रजन्ति ॥ ४१ ॥
 
स्वीयत्रोटया बिसकिसलयं चञ्चुगर्भे वितन्व-
 
न्नुत्फुल्लाम्भोरुहपरिलसन्नव्यमारन्दसिक्तम् ।
 
छत्रे कल्पन विकचकमलं योषितं पुष्करस्यां
 
कोका यस्मिन् मदनसमरक्लान्तदेहां धिनोति ॥ ४२ ॥