2026-03-03 05:32:24 by ambuda-bot
This page has not been fully proofread.
हंससन्देशे
तीरद्वन्द्रस्थितवसुमती पूर्वदेव प्रतीप-
स्नानग्रावस्खलितविमलं ताम्रवर्ण्यास्तटिन्याः ।
व्याकोशाम्भोरुह सुरभिलं तीक्ष्णभावन्मयूख-
क्लान्ताङ्गोऽयं प्रियसख ! पिब त्वं शुभं तूर्णमर्णः ॥ ३३ ॥
स्पर्धेद्रेकाद कुरुत पुरा सस्यनाशाय घोरं
क्षोणी भर्तुः क्रतुमधिपोऽवग्रहं यस्य राज्ये ।
जृम्भत्को क्षुभितमनसा तेन सत्रावलेपै-
स्वस्य स्वीयैः सुनिशितशरैः सत्वरं ध्वंसि (तातो ) सौ ॥ ३४ ॥
क्षोणीभर्तुः सहज ! मणलूराभिधानां महेन्द्र-
(ग्राः सूकां ? ) कनकसुधया लेपितां राजधानीम् ।
नाळी काक्षीनिहतमुरवध्वान विद्धान्तरालां
राजच्चम्पावृतघनधिया पश्यतस्ते न भीतिः ॥ ३५ ॥
आसीनानां कुवलयदृशां सञ्चयः सौधशृङ्गे
वीक्ष्य छायां मणिविरचितप्राङ्गणेष्वापतन्तीम् ।
जाती पुष्पैर्मृगमदरसैः संयुतैरर्चयित्वा
माध्वी मूकभ्रमदरवशाद्रक्षति त्वां मुहूर्तम् (१) ॥ ३६ ॥
अम्भोजाक्षी कलितसुमनोमण्डलीमण्डिता
गर्वोद्रेकाच्छुकखगगणैः पञ्चरस्थैरनल्पैः ।
आराद् दृष्ट्रा बिसकिसलयास्वादनोन्मत्तचित्तै-
नूनं वीणाक्वणनवचनैः स्वागतं वक्ष्यते ते ॥ ३७ ॥