This page has not been fully proofread.

पूर्वभागः ।
 
क्रोधोज्जृम्भन्निजनिटिलदृक्पावकज्वालजाले
कल्पान्ते यो भुवननिवहं भूतिशेषं करोति ।
लीलाकापप्रशमनविधिक्लृप्तनत्याप्सलाक्षा
 
शोणाब्जाय त्रिपुरारिपवे तुभ्यमस्मै नमोऽस्तु ॥ २८ ॥
 
आनम्येत्थं तदनु नभसा क्षेत्रमेतं पदव्या
श्रीजानेर्दर्भशयनमिति ख्यातमारादमुष्य ।
 
गत्व सद्यः कुरु नतिमये ! भार्गवीशाय तस्मै
यस्मिन् भेजे जनकतनयावल्लभः पाशिनं तम् ॥ २९ ॥
 
जायाचोरं प्रियसख ! तपः कुर्वतो घोरघोर
 
तस्मिन् वारान्निधितटतले जानकी कामुकस्य ।
 
अश्वत्थेन छदसमुदयैर्गीयते स्वप्रभावो
 
मूकैर्लो (ललैः स्फुटतरमये ! सन्ततं दुष्प्रमेयः (१) ॥३०॥
 
चक्षुर्मार्ग प्रविशति ततस्ताम्रवर्णीनदी त्व-
द्वर्माच्छाम्भो निजतललसद्धारलक्ष्म्योज्ज्वलन्ती ।
रोधोयुग्मस्थविदुळवलगोस्तनीभूत केशी-
वल्लीरराजत्स्तबकपटलीस्रस्तमारन्दगन्धिः ॥ ३१ ॥
 
सोपानौघस्खलितपय सस्ताम्रवर्ण्याः स्रवन्त्या
भूदेवानां तटभुवि पुरीवृन्दमग्न्याहितानाम् ।
ग्रुप श्रेणीकलितरशनं तद्धविर्गन्धयुक्त-
 
धूमस्तोमैः स्थगयति शुभैरभ्रशुभैः सदाभ्रम् ॥ ३२ ॥