This page has not been fully proofread.

हंससन्देशे
 
अद्याप्येष प्रियसख ! विभोर्भीतचेता नितान्तं
 
सीताजानेः सरिदधिपतिः स्तोककल्लोलपातः ।
त्यक्तारावः प्रथितमहिमा दक्षिणे वत्सरार्धं
 
वामे चोमस्तदनु कुरुते (पश्यतां ) रामसेतोः ॥ २३ ॥
 
राजच्चू तद्रुम किसलयास्वाद संशुद्ध कण्ठा
 
मेघश्यामः पिकखगगणः पद्ममारन्दमत्तः ।
आलोक्यास्मत्प्रियसहचरीवासतेयीसमीपं
 
गच्छन्तं त्वामनुसरति तं सम्मदादुन्मुखोऽसौ ॥ २४ ॥
 
रक्षोनाथं युधि हतवता जानकीवल्लभन
 
क्लस क्षेत्रं निखिलसुम नोमानुषैः सेव्यमानम् ।
अन्धेस्तीरे मरतकमयं हंस ! रामेश्वराख्यं
 
भैषज्यं द्रागुरुमिव गदं पापसङ्घ छिनत्ति ॥ २५ ॥
 
नित्यं काशीसरित उदकैः कृत्स्नपापत्रजन्नै-
नेत्राण्यार्द्राण्यवनिविबुधैरीश्वरस्य क्रियन्ते ।
आस्ते यस्मिन्नविरकरयो दर्षभाराद्धनूमान्
 
भग्ना (स्यारुदि१राति)स्तरणिकुलरादत्त भी मार्धभोगः ॥
 
आराद्वीक्ष्य क्षितिधरसुतेशस्य रामेश्वराख्यं
क्षेत्र पङ्कग्लपनविधये तादृशे तीर्थवा (रेरि) ।
स्नात्वा स्नात्वा सुविमलमनोविग्रहः प्राप्य सोऽग्रे
ब्रूहीत्येवं मुकुटसदृशं प्राञ्जलिं मूर्ध्नि कृत्वा ॥ २७ ॥
 
8