2026-03-03 05:53:22 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>हंससन्देशे
</ignore>
<verse>यातव्यं ते युवतिनयनच्छायनीराजितं तद्
गौणावीचीचयमुखरितं कुम्भमालूरगेहम् ।
इक्षुश्रेणीकलितरशनं हंस ! यस्मिन् महीयो
माकन्दाख्यं नयनसुभगं मन्मथक्षेत्रमस्ति ॥ १३ ॥
</verse>
<verse>पुंस्त्री संज्ञा विहगनिवहाः सन्तु सव्यापसव्ये
दृश्यन्तेऽग्रे नवसरसिजान्युल्लसत्पाटलाश्च ।
भास्वत्तप्ते खरकर मणीकल्पितारामवाटी-
प्राकाराग्रे ज्वलति दहनः कर्मसिद्धिस्ततः स्यात् ॥ १४ ॥
</verse>
<verse>पन्थानं त्वां प्रियसहचरीपत्तनं यातुकामं
भूयो ब्रूयादयमपि जनः सादरं श्रूयतां सः ।
मार्गे मार्गे नयनसुभगे सामिपुष्यत्पयोज -
प्रेङ्खद्भृङ्गावलिमुखरितेंते हंस ! विश्रम्य गच्छेः ॥ १५ ॥
</verse>
<verse>तृष्णार्तोऽपि प्रियसख ! पयो नातिशीतं पिब त्वं
सद्यो नूनं भवति सुमहद्व्याधिजन्मैकहेतुः ।
तस्माद्वातैः कमलकणिकावाहकै र्वतितापो
भृयः पङ्केरुह सुरभितं प्रस्तरास्फालनाच्छम् ॥ १६ ॥
</verse>
<verse>लङ्कामेतां कुरु दृगतिथिं राममित्रेण गुप्तां
यत्रारामो दशमुखभुजावृन्दबन्दीकृतानाम् ।
स्वर्गद्रूणामनिश विगळन्नव्य मारन्द सिक्तं
यत्सौधानां स्खलति शिखरे निर्जराणां विमानम् ॥ १७ ॥
</verse>
</page>
<ignore>हंससन्देशे
<verse>यातव्यं ते युवतिनयनच्छायनीराजितं तद्
गौणावीचीचयमुखरितं कुम्भमालूरगेहम् ।
इक्षुश्रेणीकलितरशनं हंस ! यस्मिन् महीयो
माकन्दाख्यं नयनसुभगं मन्मथक्षेत्रमस्ति ॥ १३ ॥
<verse>पुंस्त्री
दृश्यन्तेऽग्रे नवसरसिजान्युल्लसत्पाटलाश्च ।
भास्वत्तप्ते खरकर
प्राकाराग्रे ज्वलति दहनः कर्मसिद्धिस्ततः स्यात् ॥ १४ ॥
<verse>पन्थानं त्वां प्रियसहचरीपत्तनं यातुकामं
भूयो ब्रूयादयमपि जनः सादरं श्रूयतां सः ।
मार्गे मार्गे नयनसुभगे सामिपुष्यत्पयोज
प्रेङ्खद्भृङ्गावलिमुखरि
<verse>तृष्णार्तोऽपि प्रियसख ! पयो नातिशीतं पिब त्वं
सद्यो नूनं भवति सुमहद्व्याधिजन्मैकहेतुः ।
तस्माद्वातैः कमलकणिकावाहकै
भृयः पङ्केरुह
<verse>लङ्कामेतां कुरु दृगतिथिं राममित्रेण गुप्तां
यत्रारामो दशमुखभुजावृन्दबन्दीकृतानाम् ।
स्वर्गद्रूणामनिश
यत्सौधानां स्खलति शिखरे निर्जराणां विमानम् ॥ १७ ॥
</page>