This page has not been fully proofread.

हंससन्देशे
 
यातव्यं ते युवतिनयनच्छायनीराजितं तद्
गौणावीचीचयमुखरितं कुम्भमालूरगेहम् ।
इक्षुश्रेणीकलितरशनं हंस ! यस्मिन् महीयो
माकन्दाख्यं नयनसुभगं मन्मथक्षेत्रमस्ति ॥ १३ ॥
 
पुंस्त्री संज्ञा विहगनिवहाः सन्तु सव्यापसव्ये
दृश्यन्तेऽग्रे नवसरसिजान्युल्लसत्पाटलाच ।
भास्वत्तप्ते खरकर मणीकल्पितारामवाटी-
 
प्राकाराग्रे ज्वलति दहनः कर्मसिद्धिस्ततः स्यात् ॥ १४ ॥
 
पन्थानं त्वां प्रियसहचरीपत्तनं यातुकामं
 
भूयो ब्रूयादयमपि जनः सादरं श्रूयतां सः ।
 
मार्गे मार्गे नयनसुभगे सामिपुष्यत्पयोज -
प्रेङ्खभृङ्गावलिमुखरितें हंस ! विश्रम्य गच्छेः ॥ १५ ॥
 
तृष्णार्तोऽपि प्रियसख ! पयो नातिशीतं पिब त्वं
सद्यो नूनं भवति सुमहद्व्याधिजन्मैकहेतुः ।
तस्माद्वातैः कमलकणिकावाहकै वतितापो
 
भृयः पङ्केरुह सुरभितं प्रस्तरास्फालनाच्छम् ॥ १६ ॥
 
लङ्कामेतां कुरु दृगतिथिं राममित्रेण गुप्तां
 
यत्रारामो दशमुखभुजावृन्दबन्दीकृतानाम् ।
 
स्वर्गद्रूणामनिश विगळन्नव्य मारन्द सिक्तं
 
यत्सौधानां स्खलति शिखरे निर्जराणां विमानम् ॥ १७ ॥