This page has been fully proofread once and needs a second look.

<page>
<ignore>
पूर्वभागः ।
 
</ignore>
<verse>
अर्थं स्वं यो वितरति जनः प्रार्थयन्तेऽर्थिनस्तं

हन्तेक्षन्ते न कृपणतया तत्र किञ्चिद्विशेषम् ।

सारङ्गौषा भृशमतुलया तृष्णया क्लान्तदेहा
 

धूमाकारं घनमभिनवं व्योममार्ग <add>(स्त्व ? स्थ) </add>मेव ॥ ८ ॥
 
</verse>
<verse>
गाढोत्कण्ठाभृशतुलित योर्वत्स योर्वत्स<add>(रा?रो) </add>भू<add>(दियो र?द)</add>यो<add>(भूभृ?गे)</add>-

नाशावल्लीधृतहृदय योयोर्नौ पुरा राजहंस ! ।

भूयो दिष्ट्या प्रियसख ! तयोरावयो:योः संगमोऽभूत्

काले तस्मिन् हतविधिवशाद्विप्रयोगोऽयमासीत् ॥ ९ ॥
 
</verse>
<verse>
प्राक् प्रेयस्या मम च रचितो विप्रयोगो निमेषै-

र्
नूनं भ्रातः ! सुनिशितमनः शल्यमासीदसीमा ।

आवामेवं विरहविपिनस्थात्मभूव्याधलक्षं

कुर्वाणस्तौ हतविधिरसावस्तु सम्पूर्णकामः ॥ १० ॥
 
</verse>
<verse>
आशाबन्धुः सरसिशदृशो विप्रयोगाकुलाया-

स्तस्मिंस्तस्मिन् व्यसनसमये प्राणरक्षां करोति ।

नूनं नष्टो भवति सुदृढो वैष कालातिपाता -
 

द्रक्षेत् को वा तदनु सततं शोकमात्रद्वितीयाम् ॥ ११॥
 
</verse>
<verse>
अध्वन्यस्मद्युवतिशरणं गच्छतस्तेऽनुकम्पा -
 

सिन्धो ! व्योम्नो जित <add>(हिरि ? हरि)</add>र<add>(यं । १ यो?यं) </add>वासरौ द्वौ
 
<add>[ भवेताम् ।
 
</add>
शोकार्तस्य प्रियसख ! यतो गोपदव्या महीभृत्-
 

कान्तारादिप्रतिहतगतेर्हायनं स्यान्ममास्य ॥ १२ ॥
 
</verse>
</page>