This page has not been fully proofread.

पूर्वभागः ।
 
अर्थ स्वं यो वितरति जनः प्रार्थयन्तेऽर्थिनस्तं
हन्तेक्षन्ते न कृपणतया तत्र किञ्चिद्विशेषम् ।
सारङ्गौषा भृशमतुलया तृष्णया क्लान्तदेहा
 
धूमाकारं घनमभिनवं व्योममार्ग (स्त्व ? स्थ) मेव ॥ ८ ॥
 
गाढोत्कण्ठाभृशतुलित योर्वत्स (रा) भू(दियो (भूगे)-
नाशावलीधृतहृदय यो पुरा राजहंस ! ।
भूयो दिष्ट्या प्रियसख ! तयोरावयो: संगमोऽभूत्
काले तस्मिन् हतविधिवशाद्विप्रयोगोऽयमासीत् ॥ ९ ॥
 
प्राक् प्रेयस्या मम च रचितो विप्रयोगो निमेषै-
नूनं भ्रातः ! सुनिशितमनः शल्यमासीदसीमा ।
आवामेवं विरहविपिनस्थात्मभूव्याधलक्षं
कुर्वाणस्तौ हतविधिरसावस्तु सम्पूर्णकामः ॥ १० ॥
 
आशाबन्धुः सरसिशदृशो विप्रयोगाकुलाया-
स्तस्मिंस्तस्मिन् व्यसनसमये प्राणरक्षां करोति ।
नूनं नष्टो भवति सुदृढो वैष कालातिपाता -
 
द्रक्षेत् को वा तदनु सततं शोकमात्रद्वितीयाम् ॥ ११॥
 
अध्वन्यस्मद्युवतिशरणं गच्छतस्तेऽनुकम्पा -
 
सिन्धो ! व्योम्नो जित (हिरि ? हरि) र (यं । १ यं) वासरौ द्वौ
 
[ भवेताम् ।
 
शोकार्तस्य प्रियसख ! यतो गोपदव्या महीभृत्-
 
कान्तारादिप्रतिहतगतेयनं स्यान्ममास्य ॥ १२ ॥