2026-03-03 05:46:43 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>२
</ignore>
<ignore>हंससन्देशे
</ignore>
<verse>प्रत्यग्राम्रद्रुम किसलयास्वादमाद्यत्पिकाळी-
वाणीरम्ये सरसिजवनीवासिताशे वसन्ते ।
अग्रे सोऽथ प्रमुदितमना निर्भरानन्दलक्ष्मी-
हेतु हंसं मुनिरिव महानेकदैक्षिष्ट कामी ॥ ३ ॥
</verse>
<verse>संपूज्यैनं सरसिजदलै राजहंससं मरन्दै
रर्घ्यं चूतद्रुमसुमनसां सप्रमोदं वितीर्य ।
उद्यद्योषाविरहदहनज्वालसंलीढचित्त-
स्तस्य प्रीत्यै श्रवणसुभगामेष तं वाचमूचे ॥ ४ ॥
</verse>
<verse>आतङ्कोऽयं सुभग ! सुमहांस्त्यज्यतामाशु भीति-
स्थानं नाहं मम नयनयोः शीततेजःकरोऽसि ।
प्रत्यग्राम्भोरुहमधुरसं त्वं पिबाकण्ठमेतं
मारन्दाईर्द्रं सह वरटया भुङ्क्ष्व साधो ! मृणालम् ॥ १५ ॥
</verse>
<verse>जानीमोऽमी सुमहितकुलोत्तंस माणिक्यरत्नं
भूमौ लोके द्रुहिणभुवनादागतं तं भवन्तम् ।
सर्वेषां त्वं तदधिकतरो विष्किराणां पुनाति
ग्रीवां वेधाश्चरणरजसा यत्सुरौघार्थितेन ॥ ६ ॥
</verse>
<verse>मामायुष्मन् ! कलय सहसा विह्वलं मित्रवर्गै -
र्दूरं नीतं हतविधिवशाद्वल्लभायाश्च तस्याः ।
तस्माच्छीघ्रं खगपरिवृढ ! <add>( त्राणनाय ? )</add> व्रज त्वं
सन्देशं मत्प्रि<fix>य</fix>सहचरीवासतेयीं गृहीत्वा ॥ ७॥
</verse>
</page>
<ignore>२
<ignore>हंससन्देशे
<verse>प्रत्यग्राम्रद्रुम
वाणीरम्ये सरसिजवनीवासिताशे वसन्ते ।
अग्रे सोऽथ प्रमुदितमना निर्भरानन्दलक्ष्मी-
हेतु हंसं मुनिरिव महानेकदैक्षिष्ट कामी ॥ ३ ॥
<verse>संपूज्यैनं सरसिजदलै राजहं
रर्घ्यं चूतद्रुमसुमनसां सप्रमोदं वितीर्य ।
उद्यद्योषाविरहदहनज्वालसंलीढचित्त-
स्तस्य प्रीत्यै श्रवणसुभगामेष तं वाचमूचे ॥ ४ ॥
<verse>आतङ्कोऽयं सुभग ! सुमहांस्त्यज्यतामाशु भीति-
स्थानं नाहं मम नयनयोः शीततेजःकरोऽसि ।
प्रत्यग्राम्भोरुहमधुरसं त्वं पिबाकण्ठमेतं
मारन्दा
<verse>जानीमोऽमी सुमहितकुलोत्तंस
भूमौ लोके द्रुहिणभुवनादागतं तं भवन्तम् ।
सर्वेषां त्वं तदधिकतरो विष्किराणां पुनाति
ग्रीवां वेधाश्चरणरजसा यत्सुरौघार्थितेन ॥ ६ ॥
<verse>मामायुष्मन् ! कलय सहसा विह्वलं मित्रवर्गै
र्दूरं नीतं हतविधिवशाद्वल्लभायाश्च तस्याः ।
तस्माच्छीघ्रं खगपरिवृढ ! <add>( त्राणनाय ? )</add> व्रज त्वं
सन्देशं मत्प्रि<fix>य</fix>सहचरीवासतेयीं गृहीत्वा ॥ ७॥
</page>