2026-03-03 05:32:23 by ambuda-bot
This page has not been fully proofread.
२
हंससन्देशे
प्रत्यग्राम्रद्रुम किसलयास्वादमाद्यत्पिकाळी-
वाणीरम्ये सरसिजवनीवासिताशे वसन्ते ।
अग्रे सोऽथ प्रमुदितमना निर्भरानन्दलक्ष्मी-
हेतु हंसं मुनिरिव महानेकदैक्षिष्ट कामी ॥ ३ ॥
संपूज्यैनं सरसिजदलै राजहंस मरन्दै
रर्घ्यं चूतद्रुमसुमनसां सप्रमोदं वितीर्य ।
उद्यद्योषाविरहदहनज्वालसंलीढचित्त-
स्तस्य प्रीत्यै श्रवणसुभगामेष तं वाचमूचे ॥ ४ ॥
आतङ्कोऽयं सुभग ! सुमहांस्त्यज्यतामाशु भीति-
स्थानं नाहं मम नयनयोः शीततेजःकरोऽसि ।
प्रत्यग्राम्भोरुहमधुरसं त्वं पिबाकण्ठमेतं
मारन्दाई सह वरटया भुङ्क्ष्व साधो ! मृणालम् ॥ १५ ॥
जानीमोमी सुमहितकुलोत्तंस माणिक्यरत्नं
भूमौ लोके द्रुहिणभुवनादागतं तं भवन्तम् ।
सर्वेषां त्वं तदधिकतरो विष्किराणां पुनाति
ग्रीवां वेधाचरणरजसा यत्सुरौघार्थितेन ॥ ६ ॥
मामायुष्मन् ! कलय सहसा विह्वलं मित्रवर्गै -
दूरं नीतं हतविधिवशाद्वल्लभायाश्च तस्याः ।
तस्माच्छीघ्रं खगपरिवृढ ! ( त्राणनाय ? ) व्रज त्वं
सन्देशं मत्प्रिसहचरीवासतेयीं गृहीत्वा ॥ ७॥