This page has been fully proofread once and needs a second look.

<page>
<subtitle>
श्रीः
 
</subtitle>
<title>
हंससन्देश:
 
शः</title>
<verse>
श्रीमत्यम्भोरुहसुरभिते क्रीडतोः सप्रमोदं

लीलारामे गुरुनिधुवनक्लान्तधाम्नोः कयोश्चित् ।

यामिन्यां काचन निशिचरी भक्षितुं तं गृहीत्वा

लङ्कोद्याने सपदि सरमाकान्तवाचा मुमोच ॥ १ ॥
 
</verse>
<verse>
निःश्वासोष्मग्लपितदशनाच्छादनो लोचनाम्भ:भः-

संसिक्ताङ्गो हिमरुचिरजः पाण्डुरो वीतनिद्रः ।

आशावल्ली नियमितमना दक्षिणाशासमीरा-

च्चेन्दोस्त्रस्तः कतिपय दिनान्येष कृच्छ्राभिनाय ॥ २ ॥
 
</verse>
</page>