2026-03-03 05:32:23 by ambuda-bot
This page has not been fully proofread.
श्रीः
हंससन्देश:
श्रीमत्यम्भोरुहसुरभिते क्रीडतोः सप्रमोदं
लीलारामे गुरुनिधुवनक्लान्तधाम्नोः कयोश्चित् ।
यामिन्यां काचन निशिचरी भक्षितुं तं गृहीत्वा
लङ्कोद्याने सपदि सरमाकान्तवाचा मुमोच ॥ १ ॥
निःश्वासोष्मग्लपितदशनाच्छादनो लोचनाम्भ:-
संसिक्ताङ्गो हिमरुचिरजः पाण्डुरो वीतनिद्रः ।
आशावली नियमितमना दक्षिणाशासमीरा-
च्चेन्दोत्रस्तः कतिपय दिनान्येष कृच्छ्राभिनाय ॥ २ ॥