2026-03-03 05:32:22 by ambuda-bot
This page has not been fully proofread.
। उत्तरभागः ।
१७
एषा चञ्चत्कमलमुकुला लीनमीनप्रचारा
कूजभृङ्गीनिनदमधुरा मुक्तबन्धाम्बुपाता।
वापी व्यक्तं शिवशिव! मया साम्प्रतं दृश्यमाना
न्यक्षेणान्तः सुरतचतुरां बोधयत्यम्बुजाक्षीम् ॥ ६२ ।
इत्थं भूयो विपति रुजा विप्रयोगेन खिन्न
स्तस्मान्नानाहृदयसुभगै रक्ष्यतां तावदात्मा
दुःखवातं सकलमनुभूयापि ते सङ्गमाथा
श्रीकान्तः पद्भ्यां स्वयमयमितो यावदायास्यति द्राक् ॥ ६३ ॥
स्कi चितात् किमिदमधुना प्रोन्नते सौधशृङ्गे
लज्जाधिक्यस्थितिविषमया तन्वि ! साकं भवत्या ।
क्रीडोद्योगे झटिति शमिते वायुना रलदीपे
प्रीतेनान्तःस्मयवति । मया य (त्) प्रसह्यान्वभावि ॥ ६४ ॥
प्रेमाधिक्ये सति विवदिते मध्यतो नौ सखीनां
वक्ता साक्षी शुक इति समे कल्पितेऽस्माभिरस्मिन् ।
एवं गृहीत्युदितमनयेत्यवाचि प्रकोपात्
पाणिक्लेशैर्वदनमरुणं तस्य किं तत् प्रलीनम् ॥ ६५ ॥
यावद्वीर्यं कुचहरूह तिक्लेशवन्मन्निकर्षे
मानारब्धे महिषि! चतुरङ्गाह्वये नर्मभेदे ।
व्याजाद् भई गतवति मयि ज्ञाततच्या सखीनां
दृष्टया रुष्टा सकलमहरस्तन्वि ! तद्विस्मृतं किम् ॥ ६६ ॥
33