This page has not been fully proofread.

२६
 

 
कामसन्देशे
 
भद्रे ! लीलावलयितदृशः पीनवक्षोजभाजः
 
शुम्भन्मन्दस्मितशशिसुधारञ्जिताशेषयूनः ।
 
top
 
श्री शालिन्याः शरणरहिताद् विप्रयोगाद् भवत्याः
खिन्नस्यास्य प्रवदतितरां को नुं तां तामवस्थाम् ॥ ५७ ॥
 
चन्द्रे दृष्टे दिनकरधिया वक्ति कान्तस्त्वदीयः
चण्डांशो! त्वं व्यथयसि कुतो मां विनैवापराधम् ।
जानीषे त्वं निशि निशि भृशं मादृशानामवस्था-
मम्भोजिन्या विरहविधुरो हन्त! दैव विरुद्धम् ॥ ५८ ॥
 
वायो। सख्यं तच समुचितं वह्निना प्रागत्र
मय्यापत्रे दहनकणिकाजाल विक्षेप मिच्छाः
भृयो मैत्रीं कुरु यमपुरीक्किङ्करैरुद्धतैर्वा
 
फि
 
रक्षोभिर्वा विदयमपि ते दुर्बलान् पीडयेयुः ॥ ५९ ॥
 
बाले! कान्तो विलपति रुतैर्मूच्छितः कोकिलाना-
मेव घोषः किमयमशनिः किं नु मृत्योनिनादः ।
जाने तन्वी कळरवाविलासानुकारः पिकानां
 
कष्टं सोऽधिप्रतिहतविधेरद्य मे दुःखः हेतुः ॥ ६० ॥
 
लीलाबल्ली वलयानिलयाः प्रागमी तत्सकाशे
स्वर्गारामश्रियमनुपमां चक्रिरे ये मनोज्ञाः
 
ते हन्ताद्य प्रियजनवियोगार्तिभाजः प्रभूतं
 
कुम्भीपाकस्थितिमय महो कुर्वते मे विषादम् ॥ ६१ ॥
 
32