This page has not been fully proofread.

उत्तम्भ गः ।
 
यस्यां यस्यां दिशि मम दृशा सङ्गतं तत्र तत्र
स्मेरं वक्रं प्रणयमधुरं दृश्यते लोचनं च ।
कान्तस्थारादिति (यत बत!) नभो वीक्ष्य सम्भ्रान्तचक्षुः
स्निग्धे वर्गे (तदति) परितो वर्तमाने वदन्तीम् ॥ ५२ ॥
 
सोऽयं कान्तः क्षणमपि कदा हन्त दृश्येत साक्षा-
दित्थं चिन्ताशत चलधियो मजुवाणीमतयाः ।
ऊरुर्वामश्चलनसुभगः शान्तयिष्यत्युद
 
FIFTE
 
तापं भद्रं भवति शकुनं भाविनि श्रेयसि प्राक् ॥ ५३ ॥
 
इत्थं दृष्टे शुभदशकुने जातवक्रप्रसादा
 
मेनां वार्ताश्रवणविधये सस्पृहं सावधानाम् ।
रक्ष क्षीणां कुवलयदृशं मङ्क्षु स देशवाक्य-
रार्तत्राणं भवति जगति श्रेयसो मुख्यहेतुः ॥ ५४ ॥
 
भद्रे ! पत्युस्तव कुशलिनां विद्धि मामस्तदूरं
 
कामं कामप्रसवविधये नित्यवन्द्यं वधूमिः ।
 
p
 
नाविश्वासः स्मर इति भवेत् तन्वि ! ते मद्व ( शशि ) त्व-
ख्यातेर्मानं हृतहरवपुः सैव देवी भवानी ॥ ५५ ॥
 
आस्ते कान्तः क्व नु कुशलवानित्यपाङ्गेन वेगात्
तन्व्या पृष्टे कथय वसतिं व्याघ्रपुर्यां स खिन्नः ।
सीतादेव्यै रघुपतिरिव श्रीहनूमन्तमस्यै
 
तुभ्यं भद्रे ! कथितहृदयः प्रेरयामास यो माम् ॥ ५६ ॥
 
SE
31
 
२५