This page has not been fully proofread.

उत्तरभागः ।
 
आम्रः कम्रो भवति मधुरारम्भणे यस्य पार्श्वे
जाताधिक्यः स्मर ! परगुणालोकने जातखेदैः ।
स्त्रीयैरन्यैः सुरवरतरुर्नन्दनाद्भ्रंशितःसन्
॥ यत्तादात्म्यं सपदि लभते पुण्य पूरैरनेकैः ॥ २२ ॥
 
बल्लीबद्धः स खलु तरुणः शोभते चूतशाखी
कान्ताश्लिष्टः प्रिय इव पुमान् मञ्जरीमन्दहासः ।
भृङ्गापाङ्गः किसलयदुकूलावलीलोभनीय
 
पूर्णच्छायः सुरभिलपरागानुलेपोज्ज्वलाङ्गः ॥ २३ ॥
 
कश्चिद् यस्मिन् मनसिज ! महान् हेमपुष्पः समिन्धे
हेमाकारैः कुसुमनिकरैरुज्ज्वलाङ्गो नितान्तम् ।
स्वर्णाहार्यः स्वयमय मसौरभ्यदोषं जिहासु-
 
र्यस्य स्फीतद्युतिमयवपूर्वर्तत गन्धः ॥ २४ ॥
 
यत्पर्यन्ते भवति सुभगः कोऽपि पद्माकरोद्धोन
यस्मिन् कान्ता मदन ! दयिता तोयदृष्टास्यविम्बा ।
चन्द्रभ्रान्त्या निजकरतलेनैनमादातुकामा
 
दृष्ट्वा गूढं खलु परिजनैस्तत्क्षणं पर्यहासि । २५ ॥
 
कूपः कोऽपि स्फुरति विमलेनाम्भसा यत्र पूर्णो
 
लुब्धैर्न्यस्तः स इव विबुधैः स्वीय पीयूषकुम्भः ।
एतत्पातुः परममरतेतीये वापहतु
 
१९
 
यस्योपान्ते वसति हि तुलायन्त्रभङ्गया कृतान्तः ॥ २६ ।
 
25