2026-03-03 05:32:19 by ambuda-bot
This page has not been fully proofread.
उत्तरभागः ।
वाचा सिन्धोरिव निकटभाजीशितुर्निम्नगायां
मुक्तः कश्चित् कुलशिखरिभिः सप्तभिः सप्तपर्णः ।
विभ्रतेषां निजदलमिषात् सप्तसन्देशपत्त्रीं
॥शैलाब्धीश गिरिमकुटगं सेवते पार्श्ववर्ती ॥ १२ ॥
काम
कान्ते कोपात् सति विघटिते यत्र घोरे निशीथे
कामोन्मादात् स्वयमभिसरन्त्यातुराः कातराक्ष्यः ।
ध्वान्तक्लेशे दशनसुषमासंहृतेऽप्यक्षिकान्त्या
यात्रामङ्गादपि बत! भृशं क्लेशभाजः पदव्याम् ॥ १३ ॥
सौधे यस्मिन्नधिगतिजुषां योषितामा स्यविम्बं
मुग्धं पश्यन्नधिकविमतिञ्जया पूर्णचन्द्रः ।
पश्चादद्रेः शिरसि कषणे स्वीयमालिन्य मुक्त्यै
बद्धोत्साहो भवति नियतं क्षीयते यत् क्रमेण ॥ १४ ॥
यत्र स्त्रीणां कुचभरयुगं वीक्ष्य खेदाद् गिरीन्द्रा
मेघे मेघेऽप्युपलकठिने नन्ति मूर्धानमुचैः ।
नूनं नो चेत् कथमिव घनध्वानवद् रोदघोषो
वर्षाम्भोवन्नयनसलिलं धातुवद् रक्तधाराः ॥ १५ ॥
यत्र प्रातः क्वचन सहिता हन्त गूढं नवोढा
स्थित्वान्योन्यं रहसि चरि (य?तं) कौतुकेन ब्रुवन्त्यः ।
श्रुत्वा सर्व मनसिज ! जने शृण्वति द्राग्वदद्भिः
भूयो रुद्धैरपि शुकविटैराशु हास्याः क्रियन्ते ॥ १६ ॥
23