This page has not been fully proofread.

उत्तरभागः ।
 
कोणे यास्मिन मदन ! शिखिनो मण्डपः कोऽपि तुङ्गः
स्वर्णाकर्णो विलसति हरेरास्पदं विश्ववन्द्यः ।
कैलासेन विणयनभृता निन्दितः सोऽपि मेरु-
र्यव्याजेन प्रणिहितवपुः प्रौढिमाढकते स्वाम् ॥ २ ॥
 
FIKE
 
ऐशे चाभात्यचलजलधिस्वामिनो मुक्तिशाला
तद्भङ्गयाप्तोदयमपि च तं वीक्ष्य कैलासशैलः ।
यद्भक्तौषच्छलकृतवपुर्विश्वतुष्टयै भविष्यन्
मेरुक्त्येव द्विजपरिषदा पीड्यते हन्त मानी ॥ ३॥
 
यस्मिन् दृश्यं प्रतिनवसुधापाण्डरं सालचक्रं
प्रोचुङ्गाङ्ग मदन ! परितो यन्मिषेणोद्गतस्य ।
चक्रन्द्रस्य प्रविततफणाकारतः शोभमानं
वक्रश्रेणीघटितशिखरं भासुरं गोपुराग्रम् ॥ ४ ॥
 
Kepp jump's
 
यत्पादान्ते स्रवति हि निळा नाम काचित् स्रवन्ती
निःशेषांहः प्रशमनधुरीणाम्बुसम्भावनीयाः ।
 
गौरीतन्त्रात् कमिनिकटा जन्मभूरेव हये-
 
तीत्थं स्मृत्वा विबुधतटिनी यन्मिषेणावतीर्णा ॥ ५ ॥
 
MADE FROP
 
की
यस्यास्तीरे भवति सदनं दक्षिणे दक्षहन्तु-
 
यज्ञध्वंसादधिककुपितं विष्णुमाराधयिष्यन् ।
 
रुष्टस्वारादनुमतिमृते खामिनः प्रीतिकाम.
 
नयातथ्यं द्रुतमिति धियेवाप तोयावधिं यः ॥ ६ ॥
 
21
 
१५