2026-03-03 05:32:18 by ambuda-bot
This page has not been fully proofread.
१२
कामसन्देशे
पश्चाद् गच्छन् मनसिज ! पुनः पुण्यशाली विशालं
दूरात् क्षेत्र वृपपुरमिति ख्यातमीक्षस्व साक्षात् ।
गङ्गाचूडं मनसिज! पतिं वीक्ष्य कोपेन देव्यां
प्राग्ायां स खलु विमुखो वर्तते यत्र शम्भुः ॥ ५४ ॥
दृष्ट्वा गौरीं रमणवपुषं रोषवत्यां रमायां
य (स्माद् ? स्मिन्) गत्वा गिरिशसविधे विष्णुरास्ते विनीतः ।
तामेवास्मादपरसुलभां वत्सलादिन्दुमौले:
प्राप्तुं लोभादिव कृतमतिर्देह संक्रान्तिविद्याम् ॥ ५५ ॥
यस्मिन् क्षेत्रे हरिहरमयी वर्तते कापि मूर्ति-
मन्ये यस्याः सति सुरगणे स्मेरव के समन्तात् ।
अर्धं नग्ने खलु निजपटाग्रेण तच्छादनेच्छा-
19 वर्षेऽन्यस्मिन् क्रमविलुलितं यावदेतच्च नग्नम् ॥ ५६ ॥
काचित् सौम्यां दिशि पुनरतो राजधानी समिन्धे
सृष्टा राज्ञा प्रथितयशसा रामवर्माभिधेन ।
रामे स्वर्ग गतवति चिरादाकुला सत्ययोध्या
यद्रूपोत्था शमयति शुचं तेन वैधव्यजाताम् ॥ ५७ ॥
क्षेत्रोपान्ते निशमय मठाः सन्ति सन्न्यासभाजां
शास्त्रादर्शे मनसिज ! सुसन्दृष्टशारीरकाणाम् ।
पश्चात् सर्वं क्रमगतिपदेष्वर्चिरादिस्थलेषु
प्राश्यारब्धं पुनरनुपमं मुक्तिसौख्यं गतानाम् ॥ ५८ ॥
18