This page has not been fully proofread.

पूर्वभागः
 
क्षेत्रं क्षेत्राद् व्रज पशुपतेः कुम्भकोणाभिधेयं
शम्भोर्नृत्तश्रमशम विधौ स्वैरवासाय सृष्टम्
पापव्यूहं खलु जनिमतां जातु यत्रागतानां
 
लेख्ये नित्यं वसति लिखितं चित्रगुप्तः प्रमार्द्धम् ॥ ३९ ॥
 
यत्पर्यन्ते भवति विपुलः कोऽपि पद्माकरोद्धो
माघे यस्मिन् कुशलजननी जाह्नवी सन्निधते ।
अन्तर्गन्तुं निजमवसरं भर्तुरन्वीक्षमाणा फक
रोपावेशादिव जलरवैरागतिं बोधयन्ती ॥ ४० ॥
 
श्रीरङ्गारूपं व्रज शिश्शयिषुः स्वरमागत्य सिन्धो
 
शेते यस्मिन् हरिरसहनस्तायवातान् सुशीतान् ।
विष्वग् वापीशिशिरपवनैः क्लशितः सोऽपि भृयः
को वा वैधीं त्यजति सुतरां कल्पनां पौरुषेण ॥ ४१ ॥
 
निन्द्यं स्थातुं श्वशुरभवनं काम! जामातुरित्थं
स्मृत्वा लक्ष्मीपरिणयविधेरूर्ध्वमिन्द्रानुजन्मा
यच्चागच्छद् विपुलतानीच्छ गावेण पुत्री
 
स्नेहाधिक्यात् सलिलनिधिना नित्यमत्यक्तपार्श्वम् ॥ ४२ ॥
 
एकेनाह्रा व्रज पुनरितः कोङ्कणान् कण्टकाख्यान्
 
धाता सृष्टान् नरकधरणसृिष्टिशिष्टैः पदार्थों
 
यजातानां दुरितगणनाशक्तितश्चित्रगुप्तः
 
स्वीये कृत्ये भवति विमुखः किं नु भूयो वदामः ॥ ४३ ॥
 
15