2026-03-03 05:32:16 by ambuda-bot
This page has not been fully proofread.
पूर्वभागः।
तस्मान्मार्गादगलितगतिः साधु सारस्वतार्थ
तत् कामाक्ष्याः शशिदिशि गतं क्षेत्रमीक्षख दूरे ।
धातुर्वक्त्रे सति हरहृते या किलोत्पत्य तस्माद्
यद्रन्धान्तर्निपतति निजापत्तिशङ्का कुलेव ॥ २९ ॥
भूयो रक्षः ककुभि परिवृत्याशु तुङ्गस्रवन्तीं
कावेरीं तां भुवनविदितां पश्य पुण्यैकवश्याम् ।
चोळक्षोणेरुरसि घटिता या खलु स्रङ्मल्ली-
वाभात्युच्चै विविधविबुधक्षेत्रमाणिक्यगुम्फा ॥ ३० ॥
लीलाचश्चन्मकरनयना या पयश्शीघ्रगत्या
नृत्यत्पङ्केरुहकुचभरा लोलकुल्याकरान्ता ।
मन्द भ्रश्यत्सलिलवसना गामिनी भर्तृदेश
प्रत्यक्षोद्यत्पुलिनजघना कामिनीवावभाति ॥ ३१ ॥
सह्याद्रेः प्रथममुदिता कौटकी भ्रमतली
गत्वा भूयः सुजनललितं चोळमासाद्य हृद्यम् ।
श्रीरङ्गाख्यं सरसिजदृशो विष्वगावेष्टव
या च प्राप्ता लवणजलधिं प्राच्यमुत्पूय लोकान् ॥ ३२ ॥
यात्रा शुल्कं सकलजगतामस्ति यत्र प्रभूतं
तत्रस्थैस्तैर्नृपतिपशुभिर्भुज्यमानं बलेन ।
माटक्षोणीबलभिदखिलत्राण नैपुण्य चुच्चु-
दुर्वारं यत् प्रशमितकथं निर्ममे रामवर्मा ॥ ३३ ॥
13