2026-03-03 05:32:16 by ambuda-bot
This page has not been fully proofread.
कामसन्देशे
एनां गङ्गां कपटरसिके पृष्ठतो हन्त कृत्वा
स्त्रीये कान्ते प्रतिदिनमवाचीमुखे वर्तमाने ।
एनामेव स्थिरतरमतिं नेत्रयुग्मेन भूयः
पश्यन्तीव प्रतिवसति या सन्निधौ शङ्कमाना ॥ २४ ॥
क्षेत्रे यत्र स्फटिकघटिते क्वापि तत्कान्तिशुभ्रां
दृष्ट्रा गौरीं स च पशुपतिजीतु गङ्गोपलब्ध्या ।
कन्दर्पातें कुरु मयि कृपां जाह्नवीत्यर्धवाक्ये
लज्जामूकः किमु न कुरुते हन्त! देव्यां हसन्त्याम् ॥ २५ ॥
चित्रं यत्र क्षणपरिचिताः संभवेयुः पुमांसः
केशे गङ्गाजलविधिशिरश्चन्द्ररेखाकलापाः । गा
कण्ठे काला वपुषि भसितालङ्क्रियालोभनायाः
फाले शुम्भज्ज्वलन (वसनय) ना वक्षसि व्यालहाराः ॥ २६ ॥
यत्र प्राप्ताः खलु बलिमहे कामिनीकान्तसङ्घा
स्त्वत्सान्निध्यप्रतिनवञ्चवं कामपीडाविकारम्
दृष्टान्योन्यं मदन ! मनसा शङ्कितान्योन्यरागाः
प्रत्याहन्युर्मुहुरपि दृशामश्चलैः कोपरक्तैः ॥ २७ ॥
अस्मात् क्षेत्राद् वरुणककुभं तूर्णमुद्दिश्य यायाः
सूर्ये प्राच्यां गिरिमुपगते खानुकूलैः करौघैः ।
सत्साहाय्यः प्रतिनवसरोजावलीबाणपाणि-
मार्गे मार्गे मदन] मधुपव्यूह मौर्वीकरः सन् ॥ २८ ॥
12