This page has not been fully proofread.

पूर्वभागः
 
नावाक्षेत्रं महितमवधीकृत्य देशादमुष्मा
 

 
प्रौढं मार्ग शृणु कथयतो मे मुखादङ्गजन्मन् ! ।
दिव्येनाक्ष्णा यदपि विदितं वक्ष्यमाणं तथापि IED
॥४ ब्रूमः सर्व प्रियजनकथालेशसम्बद्धहृद्यम् । १९ ॥
 
शुद्धः शम्भुं मदन ! शिवगङ्गापयो बिन्दुपूरै-
बतानीतैरपि च जनहस्तो (त्थिक्षि) तैर्भ स्मजालैः ।
आमुक्ताङ्गः शिव मृड भवेत्युच्चरन् नाम शैवं
" ।दभ्रक्षेत्रे विहितवसतिं पूर्वमीक्षख साक्षात् ॥ २० ॥
 
यस्मिन् नृत्यत्य तिजवपतत्पादपद्माभिघात-
भ्राम्यत्क्षोणीविचलनवशात् सन्ततोद्धान्तगात्राः ।
 
शीघ्र भ्रान्त्या गलितवसनाश्चूर्णजालाङ्किताङ्गाः
साम्यं सर्वे मनसिज! जनास्तत्र गात्रे लभन्ते ॥ २१ ॥
 
शम्भोः स्थानात् प्रमुदितजनादुत्तरेणाङ्ग ! गत्वा REP
द्रष्टव्या सा मदन! शिवगङ्गाभिधा पुण्यवापी ।
भर्तुर्मूर्ध्नि स्थितिपरिभवक्रुद्धगौरीविरुद्धा
 
गङ्गा पादाम्बुजमुपगता यन्मिषेणोद्बभूव ॥ २२ ॥
 
यस्यास्तीरे शिखरिदुहितुर्निर्मित वेश्म र
 
र्यस्मिन् नानामणिकरमिषाद् वर्तते लोकमाता
अन्ते गौर्याः सततवसनात् प्रीतिभाजः सकाशा
। दर्भाङ्गाप्तेः कमितुरुपदेशं रहस्याप्तुकामा ॥ २३ ॥
 
11