This page has not been fully proofread.

कामसन्देशे
 
प्रेष्यत्वं हि प्रथितयशसां निन्द्यामित्यङ्ग ! शङ्का
मा मा भूयात् तब हृदि विभो ! किं नु पूर्णैरकार्या ।
विष्णुः साक्षात् स हि यदुपतिः प्रार्थितं पाण्डुनो-
चक्रे दात्यं धुरमिति कथा किं न ते सुप्रसिद्धा ॥ १४ ॥
 
इन्द्रस्यार्थे स्वतनु मजहा इत्युदयशस्ते
॥ यद्रक्षार्थं वरमतनुरित्यामृतं नामधेयम् ।
सन्त्यज्यैतन्मदन ! कृपया तिष्ठसे मामारा
 
॥ तस्मादस्मित्रिभुवन जुवामग्रणीर्भाग्यभाजाम् ॥ १५ ॥
 
सन्देशाख्यं मधु नवमितो (नीयता) मङ्गना
श्लिष्यद्वर्णावलिमयमहाभाजने सगृहीतम् ।
मन्दाक्रान्तात्मकपरिलसद्वृत्तचित्रातिचित्रे
 
॥ शब्दार्थालङ्कृतिपरिमलावाससम्मोहनीयम् ॥ १६ ॥
 
गन्तभ्यं तद् भुवनविदितं मन्दिरं सुन्दरा
 
शृङ्गाराब्धे ! मदन ! भवता चन्द्रलक्ष्म्याः प्रियायाः ।
यस्मिन् नित्यं निवसति भवानर्चितः पक्ष्मलाक्ष्या
॥ १ हप्तानुग्रैः शमयितुमनङ्गाशुगैराशु पुंसः ॥ १७ ॥
 
गन्तुं कान्ताभवनमयि ! ते पश्य भद्रं निमित्तं
शङ्खः शम्भोर्ध्वनति भवने कर्णमानन्दयिष्यन् ।
मेरीनादः प्रसरति यथा शोभनः सर्वमास्तां
 
क्रीडानृते भवति शुभदं शिञ्जितं शैलजायाः ॥ १८ ॥
 
10