2026-03-03 05:32:15 by ambuda-bot
This page has not been fully proofread.
पूर्वभागः
नाहं जाने मम च सुहृदश्चान्तराले कियन्ति
क्ष्माभृत्कुल्याविपिनतटिनीपत्तनानां कुलानि ।
यद्यप्येवं मनसिज ! बलादद्य दृष्टो हि (दृदि)ष्ट्या
देवोत्थाया भवति विपदा देवतः शान्तिज्वी ॥ ९ ॥
आपन्मुक्त्यै चल इति मया नार्थितो मातरिश्वा
पूर्णोऽपीन्दुर्मनसिज! जळात्मेति नापेक्षित (तिःर्थिः) ।
मासः श्रीमान् मधुरतिथिरित्यास्थया नेक्षितो वा
॥ त्वं तु प्रौढद्युतिरपरथाभृत इत्युत्सुकोऽस्मि ॥ १० ॥
आशालम्बो विरहिसुदृशां सा च सन्देशसाध्या
दूतानेयः स च स जववान् त्वत्परः को नु तद्वान् ।
तस्मादस्मद्विषयकथया तूर्णमासाद्य कान्ता-
मायास्यामि द्रुततरमितो यावदाश्वासयेथाः ॥ ११ ॥
नीरन्धे पथ्यणुरसि, विभुर्विस्तृते वा, गुरुस्त्वं
वाताक्रान्ते, लघुरसि पुनर्लङ्घने पर्वतानाम् ।
रुन्धे कस्त्वां मदन ! वशिनं चेशिनं प्राप्तिमन्तं
प्राकाश्यं स्वं प्रकटयसि चेद् गन्तुमर्हस्यतस्त्वम् ॥ १२ ॥
याच्या कार्या मनसिज ! जने मक्षु दीनैरदीने
स्नेहा वेशोऽप्यथि बत! परैराशु तद्वत् परस्मिन् ।
नो चेदाद्या हितकृति जळोऽस्मीति वार्ता (मयि स्याद्)
॥ नान्यो वा चेत् पद जुषि शठोऽसति या नि (युग्मे ? योज्ये) ॥
9