This page has not been fully proofread.


 
कामसन्देशे
 
चित्रं पश्याम्यविहतगतिं (हेव वेग) वन्तं भवन्तं
मन्येऽनङ्गस्त्वमिति न वि (दो) वास्तवीकं वदन्ति ।
एवंभूतं मनसिज रुषा तावकं गात्ररत्नं
कोपोद्भूतैर्नयनदहनैः किं दहेदिन्दुमौलिः ॥ ४ ॥
 
श्रान्तस्त्वं चदिह वस सुखं हेममय्यां सभायां
पूर्व कार्या श्रमपरिहृतिः कार्यचिन्ता तु पश्चात् ।
पूजाकर्मण्ययि! तव नृणां पाणि (मुद्रा)पि तुष्टय
किं वा ब्रूमः सुमहति सुवर्णासने साधुदत्ते ॥ ५ ॥
 
मौवघोषं शमय परुषं वर्ततेऽत्र त्रिणे
त्रिणेत्रः
 
कोपाद्यस्तु प्रदहति जनं सर्वमक्ष्णा विरुद्धम् ।
दग्धश्चेत् त्वं हितकृदत एवाङ्ग ! दग्धोऽस्मि नूनं ि
स्वात्मा बन्धुर्द्वयमिति मतिर्देहिनां भ्रान्तिरेव ॥ ६ ॥
 
18. 9.11
 
सार्धं प्रेम्णा प्रियसहचरी किं रतिः खैरमास्ते
 
यन्मङ्गल्याद् गिरिशनयने नाग्निदग्धोऽप्यनक्षीः ।
शम्भोगौरी रतिमयवपुर्या सती चार्धनारी
भावं कृत्वा परिहृतवती भर्तृदाहावमानम् ॥ ७ ॥
 
T
 
एनं कान्ताविरहविधुरं विद्धि मामङ्गजन्मन्
नेता पारं विरहजलधेस्त्वं हि कामातुराणाम् ।
आर्तत्रा (णे) महति सुकृते हस्तलब्धे किलार्थे
 
मा भूल्लुब्धाध्वगविषमिते (चेतने ते) प्रसा (दः) ॥ ८ ॥
 
8