2022-08-09 15:59:54 by samudrakrostu

This page has been fully proofread twice.

संहितोपनिषत् 75
 
28. अथनामरूपनिर्वोदुढृत्वमुखं ब्रह्मणोलक्ष्म ।
प्रार्थनमन्त्रोवंशोऽपुनरावृत्यै च कर्तव्यम् ||
 
29. छान्दोग्योपनिषद इत्यष्टाध्याय्याः प्रमेयसंग्रहणम् ।
श्रीरामशास्त्रिकलितं भगवत्पादांघ्रिपंकजेन्यस्तम् ||
 
 
||

 
 
संहितोपनिषत् ||
 
संहितोपनिषदाख्यं सप्तमं ब्राह्मणमधिकृत्यविचार्यते ।
पंचखण्डात्मकमिदंब्राह्मणम् । सायणद्विजराजभट्टाभ्यां व्या-
ख्यातम् । संहिता, विछेदमन्तरा प्रयुज्यमाना, अथवा,
उपनयनादारभ्याजीवनं अभ्यसनीया | साच ऋक्संहिता, साम-
संहितेति द्विविधा | तस्या रहस्यविचारोऽत्र क्रियत इत्यतः
संहितोपनिषदिति नामास्यग्रंथस्य ||
 
||

 
प्रथमेखण्डे ||
 
आर्चिकगानसंहितयोर्दैवासुरार्षभेदेन त्रैविध्यम् | एका-
न्ततोमन्द्रस्वरेण कैश्चिदप्यश्रूयमाणतया गानं देदैवं, परोक्षं
स्वर्गसाधनम् | सर्वैरपि श्रूयमाणतया बहिरास्थायगानमासुरं
प्रत्यक्षं, पश्वादिदृष्टमात्रफलकम् । गृहे ब्रह्मयज्ञादौपरोक्षतया
बहिर्यागादौ प्रत्यक्षतयाचगानं परोक्षप्रत्यक्षमार्षं, ब्रह्मवर्च-
सफलम् । पारलौकिकफलोद्देशेनैव प्रयुज्यमानंदैवं, अन्नपानादि-
.