This page has been fully proofread once and needs a second look.

योगकोशः
 
सदा भ्यादित्येवंरूप: संकल आशीरिति योगमञ्जरीकारः । सदाहं

भूयासमिति मरणत्रास एवाशीरिति मणिप्रभा ।
 

 
आसनानि, आसन
स्थिरसुखमासनम् । स्थिरं निश्चलं सत् यत् सुखात्मकं

तदासनम् । आस्यतेऽनेन प्रकारेणेति व्युत्पत्तेः उपवेशनस्य प्रकार-

विशेष आसनं भवति । कश्चित्तु स्थिरं सुखमस्मिन्निति बहुव्रीहि-

व्युत्पत्त्या स्थिरस्य सुखस्य साधनमासनमाह ।
 

ग्रासनानि च पद्मासनं, वीरासनं, भद्रासनं, स्वस्तिकं, दण्डासनं,
 

सोपाश्रयम् पर्यंङ्कं क्रौञ्चनिषोदनं,
 
हस्तिनिपादनमुष्टुनिषोदनं
 

समसंस्थानमित्येवमादीनि । अथवा येन संस्थानेनावस्थितस्य स्थैर्यं
 

सुखञ्ज सिध्यति तत्सर्वं स्थिरसुखं सदासनमस्तीति । ( द्र० यो०

मा० त० वै० पा० १ सू० ४६ ) । प्रत्येकमासनानां लक्षणानि

त्वन्यतोऽवसेयानि ।
 

आसनानि सिद्धासनादीनि चतुरशीतिरिति योगदीपिको । तदुक्तम्

हठयोगप्रदीपिकायाम् "चतुरशीत्यासनानि शिवेन कथितानि च " ।

उप० १ श्लोक ३३ ।
 

गारक्षनाथस्त्वाह - आसनानि न तावन्ति यादत्यो जीवजातयः ।

एतेषामखिलान् भेदान् विजानाति महेश्वरः । इति । ! द्र० ह० यो०

प्र० सं० व्या० उप० १ इलो० ३३ ) । तेषु सिद्धासनपदभासन-

सिंहासनभद्रासनानि चत्वारि श्रेष्ठासनानि । ( द्र० ह० यो० प्र०

उप० १ ३लो० ३४ ) ।