This page has been fully proofread once and needs a second look.

योगकोशः
 
योगोत्यादिशदैर्व्यपदिश्यते । तदुक्तं विष्णुपुराणे- "योगयुक् प्रथमं

योगी युञ्जमानोऽभिधीयते"
इति । ( द्र० यो० मा० त०० पा०
२ सु० १ ) ।
 
इति । ( द्र० यो० मा० त०० पा०
 

आरुरुरेव कृते कर्म योगकारणमिति भगवद्गीतायः मुक्तम् ।

यथा-
– "आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते । योगारुढस्य तस्यैव

शमः कारणमुच्यते" इति ।
 

 
आरूढयोगः, आरूढयोग
आरूढो योगो येनेतिव्युत्पत्त्या व्युत्थितचित्तमिन्नः समा-

हितचित्त एव योगी आरूढयोगी योगारूढो योगारूढचित्त आरूढ-

योगवृक्ष इति संज्ञाभिरुच्यते । अयमेव योगस्योत्तमाधिकारी, यश्च

क्रियायोगादिसकलाङ्गानां नैरपेक्ष्येण अभ्यासवैराग्यमात्रसाधनेनैव

योगसिद्धि तत्फलञ्च लभत इति । (द्र० यो० वा० पा० २ सू० १)

अस्यैव योगिनः कृते भगवद्गोतायामुक्तम् - योगारूढस्य तस्यैव शमः

कारणमुच्यते" इति । गारुडादावप्युक्तम् –"आरूढयोगवृक्षाणां

ज्ञानत्यागो परी मतौ" इति । अत्र त्यागो बाह्यकर्मणा मेवेति

विज्ञान भिक्षुः ।
 
१८
 
-
 

 
आशय: - , आशय
कर्मणां विप कानुगुणा वासनैवाशयः । चित्तभूमौ आशेरते

इत्यासया इति व्युत्पत्तेः । न हि करभजातिनिर्वर्तक कर्म प्राग्म-

वीयकरमभोगभावितां भावनां न यावदमिव्यनांक्त तावत् करमो-

चिताय भोगाय कल्पते । तस्माद् भवति करमजात्यनुभवजन्मा

भावना करभविपाका नु गुणा इति ( द्र० यो० भा० त० वै० पा० १

सू० २४ ) ।
 

 
आशी:-
: - मा
, आशी
मा
न भूवम्, भूयासम् इत्याकारको मरणत्रास एवाशीः ।

( द्र० यो० मा० पा० ४ सू० १० ) । इदं हि वाचस्पतिमिश्र-

विज्ञानभिक्ष्वोरप्यनुमतम् । सदैव सुखसाधनानि मे भूयासुः, मा

कदाचन तमें वियोगो भूदिति यः सङ्कल्पविशेषः स एवाशीरिति

भोजदेवः । मम शरीरेन्द्रियादिभिवियोगो मा मूत् सुखसाधनं मे