This page has been fully proofread once and needs a second look.

नन्दमाह, तदनुगतं संप्रज्ञात श्वानन्दानुगतसंप्रज्ञातमाचष्टे । विज्ञान-
भिक्षुस्तु एकस्मिन्नेव स्थूले भूतेन्दियात्मके आलम्बने वितर्कमारभ्य
आनन्दपर्यन्तं संम्प्रज्ञातमुदाहरतोति । मणिप्रभाकारो वाचस्पति-
मेवानुसरति नागेशभट्टश्च विज्ञान भिक्षुमिति अनुसन्धेयम् ।
 
आनुश्रविकविषयाः, आनुश्रविकविषय – अनुश्रवो वेदः, ततोऽधिगता आनुभविका:
स्वर्गादयः । एत एवानुश्रविक विषयाः सन्ति ।
 
आप्तः, आप्त
तत्त्वदर्शन कारुण्यकरणपाटवाभिसम्बन्धः आप्तिः, तथा सह
वर्तत इत्याप्तः इति वाचस्पतिमिश्राः । भ्रमप्रमादविप्रलिप्साकरणा-
पाटवादिदोषरहित प्राप्त इति विज्ञानभिक्षुः । फलतो नानयोगेंदः ।
( द्र० त० वै० तथा यो० वा० पा० १ सू० ७ ) ।
 
आभोगः, आभोग
स्वरूपसात्कारवती प्रज्ञा आभोगः । स च स्थूलविषयत्वात्
स्थूल आभोगो वितर्क इत्युच्यते । सूक्ष्मविषयत्वात् सूक्ष्म भोगो
विचार इत्युच्यते इति वाचस्पतिमिश्राः । ( द्र० यो० मा० त०
वै० पा० १ सू० १६) ।
विज्ञानभिक्षवस्तु व्याचक्षते - ग्राभोग: परिपूर्णता । अर्थात् स्थूलयो-
भूतेन्द्रिययोरदृष्टाश्रुतामताशेषविशेषसाक्षात्कार एव चित्तस्य परि-
पूर्णतारूप: स्थू आभोग: । अयं वितर्क इत्युच्यते । एवं तत्रैवा-
लम्बने कारणत्वादिनाऽनुगता ये प्रकृतिमहदहङ्कारपञ्चतन्मात्ररूपा
भूतेन्द्रिययोः सूक्ष्मा अर्थास्तदाकारत्वात् यः सूक्ष्मगताशेष विशेष-
साक्षात्कारः स चित्तस्य सूक्ष्म आभोगः । स च विचार इत्धुच्यते ।
( द्र० यो० वा० पा० १ सू० १७ ) ।
 
आरुरुक्षुयतिः, आरुरुक्षुयति
व्युत्थित चित्तोऽपि = बहिर्मुखोऽपि यो योगारूढो
भवितुमिच्छति, स आरुरुक्षुयतिः । तस्यैव योगारूढत्वसंपादनाय
तपःस्वाध्यायेश्वरप्रणिधानात्मकस्य क्रियायोगस्योपदेशो यमनिय-
मादियोगाङ्गोपदेशश्चेति । स च प्राथमिकयोगो युञ्जान (युञ्जमान)