This page has not been fully proofread.

( १६ )
 
आकाशगमनम् – पाञ्चभौतिकशरीरस्य अवकाशदायकेताकाशेन यः
सम्बन्धस्तत्र संयमं विधाय लघुनि तुलादी तन्मयोभावलणां
समापति विधाय प्राप्तातिलघुभावो योगी प्रथमं यथारुचि जले
सञ्चरणक्रमेण ऊर्णनाभतन्तुजालेन सञ्चरमाण आदित्य रश्मि मिरच
विहरन् यथेष्टमाकाशगमनं करोति । ( द्र० पा० यो० सू० भो० वृ०
वि० पा० सू० ४२ ) ।
 
कायाकाशसम्बन्धे लघुतूलादौ वा पृथक् पृथक् संयमादाकाश-
गमन सिद्धिर्भवतीति वाचस्पतिमिश्रा विज्ञानभिक्षुश्च । ( द्र० यो०
मा० त० वै० तथा यो० वा० पा० ३ सू० ४२ ) ।
आगम: - आप्तेन दृष्टोऽनुमितो वाथं: परत्र स्वबोधसंक्रान्तये
शब्देनोपदिश्यते । तस्मात् शब्दात् श्रोतुर्जायमाना तदर्थंविषया
वृत्तिरागमप्रमाणम् । यस्याश्रद्धेयार्थो वक्ता न दृष्टानुमितार्थः, स
आगम: प्लवते, मूलवक्तरि तु दृष्टानुमितार्थे सत्यागमो निविप्लवः
स्यात् । ( द्र० यो० भा० पा० १ सू० ७ ) आगच्छन्ति बुद्धि-
मारोहन्ति अस्मादभ्युदयनिःश्रेयसोपाया इत्यागम: श्रुतिस्मृतीति--
हासपुराणरूपः ।
 
आनन्द: – इन्द्रिये स्थूलालम्बने
 
-
 
1
 
चित्तस्याभोगोऽर्थात् तत्स्वरूप-
साक्षात्कारवती प्रज्ञा, सैव ह्लाद आनन्द इत्युच्यते । अत्रेयमुपपत्तिः -
प्रकाशशीलतया खलु सत्त्वप्रधानादहङ्कारात् इन्द्रियाण्युत्पन्नानि ।
सत्त्वं सुखमिति तान्यपि सुखानीति हेतोः तत्राभोगो ह्लाद आनन्द
इति वाचस्पति मिश्रा: । (द्र०यो०भा त० वै० पा० १ सू० १७) ।
विज्ञान भिक्षुस्तु– स्थूलयोर्भूतेन्द्रिययोरेव यश्चित्तस्य विचारानुगत-
भूम्यारोहात् सत्त्वप्रकर्षेण जायमानो ह्लादाख्यसुखविशेष आभोगः =
साक्षात्कारो भवति, स आनन्दविषयकत्वादानन्द इति । तेन
चानुगतो युक्तो निरोध आनन्दानुगतनामा योग इति ग्रह ।
( द्र० यो० वा० पा० १ सू० १७ ) । अत्रोभयव्याख्यात्रोरयं
भेदः——वाचस्पतिमिश्र इन्द्रिये ग्रहणरूपे सुखात्मके चित्तस्याभोगमा-