This page has not been fully proofread.

( १५ )
 
यद्यप्थविद्याऽपि भ्रमरूपा
 
अस्मिताऽपि च भ्रमरूपा तथापि अविद्या
कारणम्, अस्मिता तु तत्कार्यमित्युभयोविशेषः । ( द्र० यो० वा०
पा० २ सू० ६ ) ।
 
यस्मिन्नहंप्रत्यये चित्तपुरुपयोविवेको नोपलभ्येत, सोऽयमहंप्रत्ययोऽ
स्मिताख्य: क्लेश उच्यते इति शङ्करभगवत्पादाः । ( द्र० यो० भा०
वि० पा० २ सू० ६ ) एषा अस्मिता मोह इत्युच्यते ।
 
अस्मितामात्रा प्रवृत्तिः - एषा ज्योतिष्मती प्रवृत्तिरित्युच्यते । अस्मि
तात्र नाहङ्कारः किन्तु आत्मतत्त्वम् । तदुक्तम् - "तमणुमात्रमात्मा-
नमनुविद्य अस्मीत्येवं तावत् सम्प्रजानीते" इति । अस्मिताऽऽत्म-
ताऽहन्तेति पर्याया: एषु पदेषु भावप्रत्ययश्च निविशेषसामान्यमात्र-
बोधनाय प्रयुक्तः । तथा चास्मितायां विविक्तचिन्मात्रे पुरुषे या
चित्तसमापत्तिः साऽस्मिता मात्रा प्रवृत्तिरुच्यते । ( द्र० यो० वा ०
पा० १ सू० ३६ ) ।
 
अहिंसाप्रतिष्ठा - अहिंसास्थैयंम्, तच्च कृतकारितानुमोदित-लोभमोह-
पूर्वंकमृदुमध्याधिमात्र भावैरसंस्पर्शो हिंसाया इति यावत् । एवं
सत्यादिप्रतिष्ठाऽपि कृतकारितादिभावेरसंस्पर्शो मिथ्याभाषणस्येत्यादि
बोध्यम् ।